हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः। मां समुद्वीक्षमाणास्ते प्रयतिष्यन्ति विह्वलाः
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः। धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना
अथवा नार्जुनो धीमान्विषादमुपयास्यति। सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः
समर्थः स महाबाहुरेकाङ्ना सुमहाबलः। देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा
किं पुनर्धृतराष्ट्रस् पुत्रं दुर्द्यूतदेविनम्। विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम्
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम्। याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम्। सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ। मद्वाहुबलसंगुप्तौ नित्यं पुरुषमानिनौ
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ। मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः
एवंविधं बहु तदा विललाप वृकोदरः। भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम्
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्तचेतनः। अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन्
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता। दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना। रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा
प्रववौ चानिलो रूक्षश्चण्डः सर्करकर्षणः। अपसव्यानि सर्वाणि मृगपक्षिरुतानि च
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति। मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा
हृदयं चरणश्चापि वामोऽस्य परितप्यति। सव्यस्याक्ष्णओ विकारश्चाप्यनिष्टः समपद्यत
धर्मराजोपि मेधावी शङ्कमानो महद्भयम्। द्रौपदीं परिपप्रच्छ क्व भीम इति भारत
शंस तस्मै पाञ्चाली चिरयातं वृकोदरम्। स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम्। नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः। मृगयामास कौन्तेयो भीमसेनं महावने
स प्राचीं दिशमास्थाय महतो गजयूथपान्। ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्
ततो मृगसहस्राणि मृगेनद्राणां शतानि च। पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः
धावतस्तस्य वीरस् मृगार्थं वातरंहसः। ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे। [रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले
ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले। अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे।] गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम्। दयितं भ्रातरं धीमानिदं वचनमब्रवीत्
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्। कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः
स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम्। कथयामास तत्सर्वं ग्रहणादिविचेष्टितम्
[अयमार्य महासत्वो भक्षार्थं मां गृहीतवान्। नहुषो नाम राजर्षिः प्राणवानिव संस्थितः
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः। वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्