यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम्। व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम
श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्। `सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात्
भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत्। आख्यानमखिलं तात सौते प्रीतोऽस्मितेन ते
प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन। याः कथा व्याससंपन्नास्ताश्च भूयो विचक्ष्व मे
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम्। कर्मान्तरेषु यज्ञस्य सदस्यानां तथाऽध्वरे
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्। त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः। व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्
महाभारतमाख्यानं पाण्डवानां यशस्करम्। जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः। तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्
मनःसागरसंभूतां महर्षेर्भावितात्मनः। कथयस्व सतां श्रेष्ठ सर्वरत्नमयीमिमाम्
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्। कृष्णद्वैपायनमतं महाभारतमादितः
शृणु सर्वमशेषेण कथ्यमानं मया द्विज। शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्। अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा
जनयामास यं काली शक्तेः पुत्रात्पराशरात्। कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्। वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः
यं नाति तपसा कश्चिन्न वेदाध्ययनेन च। न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः। परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्। शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः
जनमेजयस्य राजर्षेः स महात्मा सदस्तथा। विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः
तत्र राजानमासीनं ददर्श जनमेजयम्। वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत्
प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्
भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज