स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे। न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम्
स भीमसेनस्तेजस्वी तदा सर्पवशं गतः। चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्
उवाच च महासर्पं कामयाब्रूहि पन्नग। कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः। नागायुतसमप्राणस्त्वया नीतः कथं वशम्
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा। समागताश्च बहुशो निहताश्च मया युधि
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः। भुजवेगमशक्ता मे सोढुं पन्नगसत्तम
किंनु विद्याबलं किंनु वरदानमथो तव। उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया
अनुत्यो विक्रमो नॄणामिति मे धीयते मतिः। यथेदं मे त्वया नाग बलं प्रतिहतं महत्
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्। भोगेन महता गृह्य समन्तात्पर्यवेष्टयत्
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा। विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्
दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज। दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम। तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम
इमामवस्थां संप्राप्तो ह्यहं कोपान्महर्षिणा। शापस्यान्तं परिप्रेप्सुः सर्वस् कथयामि तत्
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः। तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः
सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च। इमामवस्थामापन्नः पश्य दैवमिदं मम
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्। अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्
न हि मे मुच्यते कश्चित्कथंचित्प्रग्रहं गतः। गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता। गृहीतः कौरवश्रेष्ठ वरदानमिदं मम
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम्। कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः
यस्त्वया वेष्टितो राजन्मोहमेति महाबलः'। मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात्
ततोस्मि पतितो भूमौ न च मामजहात्स्मृतिः। स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित्। स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः
गृहीतस्य त्वया राजन्प्राणिनोपि बलीयसः। सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति
इतिचाप्यहमश्रौषं वचस्तेषां दयावताम्। मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः
सोहं परमदुष्कर्मा वसामि निरयेऽशुचौ। सर्पयोनिमिमां प्राप्यकालाकाङ्क्षी महाद्युते
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्। न ते कुप्ये महासर्प नात्मने द्विजसत्तम
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः। आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः
दैवं पुरुषकारेण को वञ्चयितुमर्हति। दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्। इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम्
किंतु नाद्यानुशोचामि तथाऽऽत्मानं विनाशितम्। तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान्