ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः। अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः। ततोऽमरवरप्रख्यो भीमसेनो महाबलः
स ददर्श महाकायं भुजङ्गं रोमहर्षणम्। गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम्
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः। चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम्
गुहाकारेण वक्रेण चतुर्दंष्ट्रेण राजता। दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः
त्रासनं सर्वभूतानां कालान्तकयमोपमम्। निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम्
स भीमं सहसाऽभ्येत्य पृदाकुः क्षुधितो भृशम्। जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा। संज्ञा मुमोह सहसा वरदानेन तस्य हि
दशनागसहस्राणि धारयन्ति हि यद्बलम्। इद्रलं भीमसेनस्य भुजयोरसमं परैः
स तेजस्वी तथा तेन भुजगेन वशीकृतः। विम्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम्
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः। गृहीतो व्यजहात्सत्वं वरदानविमोहितः
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे। न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम्
स भीमसेनस्तेजस्वी तदा सर्पवशं गतः। चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्
उवाच च महासर्पं कामयाब्रूहि पन्नग। कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः। नागायुतसमप्राणस्त्वया नीतः कथं वशम्
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा। समागताश्च बहुशो निहताश्च मया युधि
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः। भुजवेगमशक्ता मे सोढुं पन्नगसत्तम
किंनु विद्याबलं किंनु वरदानमथो तव। उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया
अनुत्यो विक्रमो नॄणामिति मे धीयते मतिः। यथेदं मे त्वया नाग बलं प्रतिहतं महत्
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्। भोगेन महता गृह्य समन्तात्पर्यवेष्टयत्
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा। विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्
दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज। दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम। तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम
इमामवस्थां संप्राप्तो ह्यहं कोपान्महर्षिणा। शापस्यान्तं परिप्रेप्सुः सर्वस् कथयामि तत्
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः। तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः
सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च। इमामवस्थामापन्नः पश्य दैवमिदं मम
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्। अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्
न हि मे मुच्यते कश्चित्कथंचित्प्रग्रहं गतः। गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता। गृहीतः कौरवश्रेष्ठ वरदानमिदं मम
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम्। कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः
यस्त्वया वेष्टितो राजन्मोहमेति महाबलः'। मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात्