तस्मिन्गिरौ प्रस्रवणोपपन्न- हिमोत्तरीयारुणपाण्डुसानौ। विशाखयूपं समुपेत्य चक्रु- स्तदा निवासं पुरुषप्रवीराः
वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम्। शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्रवने विजह्रुः
तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम्। वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः। अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम्
ते द्वादशं वर्षमथोपयान्तं वने विहुर्तुं कुरवः प्रतीताः। तस्माद्वनाच्चैत्ररथप्रकाशा- च्छ्रिया ज्वलन्तस्तपसा च युक्ताः
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः। सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः
समीक्ष् तान्द्वैतवने निविष्टा- न्निवासिनस्तत्रततोऽभिजग्मुः। तपोदमाचारसमाधियुक्ता- स्तृणोदपात्रावरणाश्मकुट्टाः
प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः। बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः
तां यक्षगन्धर्वमहर्षिकान्ता- मावासभूतामिव देवतानाम्। सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः
कथं नागायुतप्राणो भीमो भीमपराक्रमः। भयमाहारयत्तीव्रं तस्मादजगरान्मुने
पौलस्त्यं धनदं युद्दे य आह्वयति दर्पितः। नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम्
तं संससि भयाविष्टमापन्नमरिसूदनम्। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्। प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः
यदृच्छया धनुष्पाणिर्बद्धखङ्गो वृकोदरः। ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम्
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा। देवर्षिसिद्धचरितानप्सरोगणसेवितान्
चकोरैरुपचक्रैशच् पक्षिभिर्जीवजीवकैः। कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान्
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः। उपेतान्बहुलच्छायैर्मनोनयननन्दनैः
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः। सलिलैर्हिमसंकाशैर्हंसकारण्डवायुतैः
वनानि देवदारूणां मेघानामिव वागुराः। हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि
मृगयां परिधावन्स समेषु मरुधन्वसु। विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः
भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात्। निघ्नन्नागशतप्राणो वने तस्मिन्महाबलः
मृगाणां सवराहाणां महिषाणां महाभुजः। विनिघ्नंस्तत्रतत्रैव भीमो भीमपराक्रमः
स मातङ्गशतप्राणो मनुष्यशतवारणः। सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः
वृक्षानुत्पाटयामास तरसा वै बभञ्ज च। पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च
पर्वताग्राणि वै मृद्गन्नादयानश्च विज्वरः। प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम्
वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः। आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन्। चिरसंबद्धदर्पस्तु भीमसेनो वने तदा
गजेनद्राश्च महासत्वा मृगेन्द्राश्च महाबलाः। भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात्
क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा। मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः
स तत्रमनुजव्याघ्रो वने वनचरोपमः। पद्भ्यामभिसमापेदे भीमसेनो महाबलः
स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान्। त्रासयन्सर्वभूतानि महासत्वपराक्रमः