ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम्। आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु
समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः। शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते
सुखोषितास्तस्य त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे। अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम्
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः। कुबेरकान्तां नलिनीं विशोकाः संपश्यमानाः सुरसिद्धजुष्टाम्
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः। ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः। विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः
चीनांस्तुषारान्दरदांश्च सर्वान् देशान्कुलिन्दस्य च भूरिरम्यान्। अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः
श्रुत्वा च तान्पार्थिव पुत्रपौत्रा- न्प्राप्तान्सुबाहुर्विषये समग्रान्। प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम्
समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे। सहेनद्रसेनैः परिचारकैश्च पौरोगवैर्ये च रमहानसस्थाः
सुखोपितास्तत्रत एकरात्रं सूतान्समादाय रथांश्च सर्वान्। घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम्
तस्मिन्गिरौ प्रस्रवणोपपन्न- हिमोत्तरीयारुणपाण्डुसानौ। विशाखयूपं समुपेत्य चक्रु- स्तदा निवासं पुरुषप्रवीराः
वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम्। शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्रवने विजह्रुः
तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम्। वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः। अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम्
ते द्वादशं वर्षमथोपयान्तं वने विहुर्तुं कुरवः प्रतीताः। तस्माद्वनाच्चैत्ररथप्रकाशा- च्छ्रिया ज्वलन्तस्तपसा च युक्ताः
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः। सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः
समीक्ष् तान्द्वैतवने निविष्टा- न्निवासिनस्तत्रततोऽभिजग्मुः। तपोदमाचारसमाधियुक्ता- स्तृणोदपात्रावरणाश्मकुट्टाः
प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः। बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः
तां यक्षगन्धर्वमहर्षिकान्ता- मावासभूतामिव देवतानाम्। सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः
कथं नागायुतप्राणो भीमो भीमपराक्रमः। भयमाहारयत्तीव्रं तस्मादजगरान्मुने
पौलस्त्यं धनदं युद्दे य आह्वयति दर्पितः। नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम्
तं संससि भयाविष्टमापन्नमरिसूदनम्। एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्। प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः
यदृच्छया धनुष्पाणिर्बद्धखङ्गो वृकोदरः। ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम्
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा। देवर्षिसिद्धचरितानप्सरोगणसेवितान्
चकोरैरुपचक्रैशच् पक्षिभिर्जीवजीवकैः। कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान्
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः। उपेतान्बहुलच्छायैर्मनोनयननन्दनैः
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः। सलिलैर्हिमसंकाशैर्हंसकारण्डवायुतैः
वनानि देवदारूणां मेघानामिव वागुराः। हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि
मृगयां परिधावन्स समेषु मरुधन्वसु। विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः