तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरामो वनानि। समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान्
संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम। निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय
सुयोधनायानुचरैर्वृताय ततो महीं प्राप्नुहि धर्मराज। स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः
कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु। तत्प्राप्य राज्यंकुरुपुङ्गवानां शक्यं महत्प्राप्तुमथ क्रियाश्च
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात्। कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च
तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः। न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज
तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता। यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः
तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः। तथैव चेमौ नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे
त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान्समेत्य
ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः। प्रदक्षिणं स्थानमुपेत्य राजा पर्याक्रमद्वैश्रवणस्य राज्ञः
संप्रार्थयामास नगेन्द्रवर्यम् ।।]
समाप्तकर्मा सहितः सुहृद्भि- र्जित्वा सपत्नान्प्रतिलभ्य राज्यम्। शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार
वृतश्च सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पुनर्निवृत्तः। उवाह चैनान्गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु
तान्प्रस्थितान्प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान्। स लोमशो दिवमेवोर्जितश्री- र्जगाम तेषां विजयं तदोक्त्वा
तेनार्ष्टिषेणेन तथानुशिष्टा- स्तीर्तानि रम्याणि तपोवनानि। महान्ति चान्यानि सरांसि पार्थाः कसंपश्यमानाः प्रययुर्नराग्र्याः
नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च। सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम्
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव। कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम्
समुच्छ्रयान्पर्वतसंनिरोधान् गोष्ठान्हरीणां गिरिगह्वराणि। बहुप्रकाराणि समीक्ष्यवीराः स्थलानि निम्नानि च तत्र तत्र
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि। आलोकयन्तोऽभिययुः प्रतीता- स्ते धन्विनाः खङ्गधरा नराग्र्याः
वनानि रम्याणि नदीः सरांसि गुहा गिरीणां गिरिगह्वराणि एते निवासाः सततं बभूवु- र्निशामुखं प्राप्य नरर्षभाणाम्
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम्। आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु
समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः। शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते
सुखोषितास्तस्य त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे। अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम्
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः। कुबेरकान्तां नलिनीं विशोकाः संपश्यमानाः सुरसिद्धजुष्टाम्
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः। ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः। विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः
चीनांस्तुषारान्दरदांश्च सर्वान् देशान्कुलिन्दस्य च भूरिरम्यान्। अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः
श्रुत्वा च तान्पार्थिव पुत्रपौत्रा- न्प्राप्तान्सुबाहुर्विषये समग्रान्। प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम्
समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे। सहेनद्रसेनैः परिचारकैश्च पौरोगवैर्ये च रमहानसस्थाः
सुखोपितास्तत्रत एकरात्रं सूतान्समादाय रथांश्च सर्वान्। घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम्