देवर्षयश्च प्रवरास्तथैव च दिवौकसः। यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः। खेचराणि च भूतानि सर्वाण्येवावतस्थिरे
ततः पितामहश्चैव लोकपालाश्च सर्वशः। भगवांश्च महादेवः सगणोऽभ्याययौ तदा
ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः। अभितः पाण्डवंचित्रैरवचक्रे समन्ततः
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः। ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः
तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः। आगम्याह वचः पार्थं श्रवणीयमिदं नृप
अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत। नैतानि निरधिष्ठाने प्रयुज्यन्ते कथंचन
अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन। प्रयोगेषु महान्दोषो ह्यस्त्राणां कुरुनन्दन
एतानि रक्ष्यमाणानि धनंजय यथागमम्। बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव। भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे। योज्यमानानि पार्थे नद्विषतामवमर्दने
निवार्याथ ततः पार्थं सर्वे देवा यथागतम्। जग्मुरन्ये च ये तत्र रसमाजग्मुर्नरर्षभ
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः। तस्मिननेव वने हृष्टास्त ऊषुः सह कृष्णया
तस्मिन्कृतास्त्रे रथिनां प्रवीरे। प्रत्यागते भवनाद्वृत्रहन्तुः। अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनंजयेन
वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः। तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः
वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानाद्रुमसन्निबद्धाः। चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः। न प्राणिनां ते स्पृहयन्ति राज- ञ्शिवश् कालः स बभूव तेषाम्
समेत्य पार्थेन यथैकरात्र- मूषुः समास्तत्रतथा चतस्रः। पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य। यमौ च वीरौ सुरराजकल्पा- वेकान्तमास्थाय हितं प्रियं च
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनुप्रियं च। ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम्
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः। तं वञ्चयित्वाऽधमबुद्धिशील- मज्ञातवासं सुखमाप्नुयाम
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरामो वनानि। समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान्
संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम। निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय
सुयोधनायानुचरैर्वृताय ततो महीं प्राप्नुहि धर्मराज। स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः
कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु। तत्प्राप्य राज्यंकुरुपुङ्गवानां शक्यं महत्प्राप्तुमथ क्रियाश्च
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात्। कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च
तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः। न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज
तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता। यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः
तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः। तथैव चेमौ नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे
त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान्समेत्य
ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः। प्रदक्षिणं स्थानमुपेत्य राजा पर्याक्रमद्वैश्रवणस्य राज्ञः