यथान्यायं महातेजाः शौचं परममास्थितः। `नमस्कृत्य त्रिनेत्राय वासवाय च पाण्डवः
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत्। पार्थिवं रथमास्थाय शोभमानो धनंजयः
दिव्येन संवृतस्तेन कवचेन सुवर्चसा। धनुरादाय गाण्डीवं देवदत्तं स वारिजम्
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः। अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै। समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा
क्षुभिताः सरितश्चैव तथैव च महोदधिः। शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः
न बभासे सहस्रांशुर्न जज्वाल च पावकः। न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन
अन्तर्भूमिगता ये च प्राणिनो जनमेजय। पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः। दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनंजयम्
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः। जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे
देवर्षयश्च प्रवरास्तथैव च दिवौकसः। यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः। खेचराणि च भूतानि सर्वाण्येवावतस्थिरे
ततः पितामहश्चैव लोकपालाश्च सर्वशः। भगवांश्च महादेवः सगणोऽभ्याययौ तदा
ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः। अभितः पाण्डवंचित्रैरवचक्रे समन्ततः
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः। ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः
तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः। आगम्याह वचः पार्थं श्रवणीयमिदं नृप
अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत। नैतानि निरधिष्ठाने प्रयुज्यन्ते कथंचन
अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन। प्रयोगेषु महान्दोषो ह्यस्त्राणां कुरुनन्दन
एतानि रक्ष्यमाणानि धनंजय यथागमम्। बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव। भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे। योज्यमानानि पार्थे नद्विषतामवमर्दने
निवार्याथ ततः पार्थं सर्वे देवा यथागतम्। जग्मुरन्ये च ये तत्र रसमाजग्मुर्नरर्षभ
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः। तस्मिननेव वने हृष्टास्त ऊषुः सह कृष्णया
तस्मिन्कृतास्त्रे रथिनां प्रवीरे। प्रत्यागते भवनाद्वृत्रहन्तुः। अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनंजयेन
वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः। तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः
वेश्मानि तान्यप्रतिमानि पश्यन् क्रीडाश्च नानाद्रुमसन्निबद्धाः। चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः। न प्राणिनां ते स्पृहयन्ति राज- ञ्शिवश् कालः स बभूव तेषाम्
समेत्य पार्थेन यथैकरात्र- मूषुः समास्तत्रतथा चतस्रः। पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य। यमौ च वीरौ सुरराजकल्पा- वेकान्तमास्थाय हितं प्रियं च
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनुप्रियं च। ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम्
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः। तं वञ्चयित्वाऽधमबुद्धिशील- मज्ञातवासं सुखमाप्नुयाम