मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्। देवराजस्य भवनं कृतकर्माणमाहवात्
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्। निवातकवचांश्चैव ततोऽहंशक्रमागमम्
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्। सर्वं विश्रावयामास यथाभूतं महाद्युते
हिरण्यपुरघातं च मायानां च निवारणम्। निवातकवचानां च वधं सङ्ख्ये महौजसाम्। `कालकेयवधं चैव अद्भुतं रोमहर्षणम्
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः। मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत्। `परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्
ततो मां देवराजो वै समाश्वास्य पुनः पुनः। अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः
अतिदेवासुरं कर्म कृतमेव त्वया रणे। गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय। असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्
अविषह्यो रणे हि त्वं देवदानवराक्षसैः। सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्। पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः
ततो मामिविश्वस्तं संरूढशरविक्षतम्। देवराजोऽनुगृह्येदं काले वचनमब्रवीत्
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत। न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः। संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम्
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः। अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम्
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम्। दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च। प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च
एवं संपूजितस्तत्रसुखमस्म्युषितो नृप। इन्द्रस् भवने पुण्ये गन्धर्वशिशुभिः सह
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह। समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते
एवमिन्द्रस्य भवने पञ्चवर्षाणि भारत। उषितानि मया राजन्स्मरता द्यूतजं कलिम्
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम्। गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत। दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः
दिष्ट्या च भगवन्स्थाणुर्देव्या सह परंतपः। साक्षाद्दृष्टः स्वयुद्धेन तोषितश् त्वयाऽनघ
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ। दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम्। `पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम्'। मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान्
इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत। यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः
सः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः। निवातकवचा घोरा यैर्मया विनिपातिताः
एवमागमनं तत्र कथयित्वा धनंजयः। भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह
तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः। उत्थायावश्यकार्याणि कृतवान्भ्रातृभिः सह
ततः संचोदयामास सोऽर्जुनं मातृनन्दनम्। दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया
ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः। अस्त्राणि तानि दिव्यानि दर्शयामास भारत