ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्। शरभाणां गजानां च वानराणां च सङ्घशः। ऋषभाणां वराहाणां मार्जाराणां तथैव च
सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः। गृध्राणां गरुडानां च चमराणां तथैव च
देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः। पिशाचानां सयक्षाणां तथैव च सुरद्विषाम्
गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च। झषाणां गजवक्राणामुलूकानां तथैव च
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम्। तथैव यातुधानानां गदामुद्गरधारिणाम्
एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा। सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः। अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः। अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः। न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्। दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान्। निशाम्य परमं हर्षमगमद्देवसारथिः
तदसह्यं कृतं कर्म देवैरपि दुरासदम्। दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः
उचाच वचनं चेदंप्रीयमाणः कृताञ्जलिः। `हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया। न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः। `ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन
सुरासुरैरवध्यं हि पुरमेतत्खगं महत्। त्वया विमथितं वीर स्ववीर्यतपसो बलात्
विद्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च। विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः। पेतुः पुत्रान्पितृन्भ्रातॄञ्शोचमाना महीतले
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः। उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम्। न बभौ दानवपुरं हतत्विट्कं हतेश्वरम्
गन्धर्वनगराकारं हृतनागमिव ह्रदम्। शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम्
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत्। देवराजस्य भवनं कृतकर्माणमाहवात्
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान्। निवातकवचांश्चैव ततोऽहंशक्रमागमम्
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत्। सर्वं विश्रावयामास यथाभूतं महाद्युते
हिरण्यपुरघातं च मायानां च निवारणम्। निवातकवचानां च वधं सङ्ख्ये महौजसाम्। `कालकेयवधं चैव अद्भुतं रोमहर्षणम्
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः। मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत्। `परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्
ततो मां देवराजो वै समाश्वास्य पुनः पुनः। अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः
अतिदेवासुरं कर्म कृतमेव त्वया रणे। गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम
एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय। असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम्
अविषह्यो रणे हि त्वं देवदानवराक्षसैः। सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम्। पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः