ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः। नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत्
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम्
ततस्तानि सहस्राणइ रथिनां चित्रयोधिनाम्। अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव
रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः। प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः
विचित्रमुकुटापीडा विचित्रकवचध्वजाः। विचित्राभरणाश्चैव मम प्रीतिकराऽभवन्
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे। नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन्
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि। व्यथितोस्मि महायुद्धे भयं चागान्महन्मम
ततोहं परमायत्तो मातलिं परिपृष्टवान्
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः। न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ। तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर
एतच्छ्रुत्वा तु राजेनद्रसंप्रहृष्टस्तमूचिवान्। निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान्
एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत्
ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः। विचुक्रुशुर्महाराज स्वरेण महता मुहुः
अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि। अस्माभिः समरे भग्न इत्येवं संघशस्तदा
ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये। प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने'। यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम्। `महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम्
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम्। त्रिमुखं षङ्भुजं दीप्तमर्कज्वलनमूर्धजम्। लेलिहानैर्महानागैः कृतचिह्नममित्रहन्
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम्। दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे। मुक्तवान्दानवेन्द्राणां पराभावाय भारत
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः। मृगाणामथ सिंहानां व्याग्राणां च विशांपते
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम्। शरभाणां गजानां च वानराणां च सङ्घशः। ऋषभाणां वराहाणां मार्जाराणां तथैव च
सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः। गृध्राणां गरुडानां च चमराणां तथैव च
देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः। पिशाचानां सयक्षाणां तथैव च सुरद्विषाम्
गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च। झषाणां गजवक्राणामुलूकानां तथैव च
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम्। तथैव यातुधानानां गदामुद्गरधारिणाम्
एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा। सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः। अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः। अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः। न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान्। दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे