सुरासुरैरवध्यानां दानवानां धनञ्जय'। मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा
[एतानपि रणे पार्त कालकेयान्दुरासदान्। वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्]
सुरासुरैरवध्यं तदहं ज्ञात्वा विशांपते। अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम्। न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात्। रथेन तेन दिव्येन हरियुक्तेन मातलिः
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः। समुत्पेतुर्महावेगा रथानास्थाय दंशिताः
ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः। प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः
तदहं शस्त्रवर्षेण महता प्रत्यवारयम्। शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे। तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः
तेषामेवं विमूढानामन्योन्यमभिधावताम्। शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः। खमुत्पेतुः सनगरा मायामास्थाय दानवीम्
ततोऽहं शरवर्षेण महता कुरुनन्दन। मार्गमावृत्य दैत्यानां गतिं चैषामवारयम्
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम्। दैतेयैर्वरदानेन धार्यते स्म यथासुखम्
अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते। पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति
अमरावतिसंकाशं तत्पुरं कामगं महत्। अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परंतप
ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च। व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ
विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः। महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम्
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः। पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः
ततो मातलिरारुह्यपुरस्तान्निपतन्निव। महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम्। युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत। तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः
ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः। नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत्
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम्
ततस्तानि सहस्राणइ रथिनां चित्रयोधिनाम्। अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव
रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः। प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः
विचित्रमुकुटापीडा विचित्रकवचध्वजाः। विचित्राभरणाश्चैव मम प्रीतिकराऽभवन्
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे। नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन्
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि। व्यथितोस्मि महायुद्धे भयं चागान्महन्मम
ततोहं परमायत्तो मातलिं परिपृष्टवान्
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः। न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ। तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर