ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत। नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः। प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम्। त्रासयन्रथघोषेण निवातकवचस्त्रियः
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान्। रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः। शिलानामिव शैलेषु पतन्तीनामभूत्तदा
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्। बहुरत्नविचित्राणि शातकुम्भमयानि च
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्। विशिष्टं देवनगरादपृच्छं मातलिं ततः
इदमेवंविधं कस्माद्देवता न विशन्त्युत। पुरंदरपुराद्धीदं विशिष्टमिति लक्षये
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्। ततो निवातकवचैरितः प्रच्याविताः सुराः
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्। इदं वृतं निवासाय देवेभ्यश्चाभयं युधि
ततः शक्रेण भगवान्स्वयंभूरभिचोदितः। विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया
तत उक्तो भगवता दिष्टमत्रेति भारत। भवितान्तस्त्वमप्येषां देहेनान्येन वृत्रहन्
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव। न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया
कालस्य परिणामेन ततस्त्वमिह भारत। एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा
दानवानां विनाशार्थं महास्त्राणां महद्बलम्। ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्। पुनर्मातलिना सार्धमगमं देवसद्म तत्
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्। पुरं कामगमं दिव्यं पावकार्कसमप्रभम्
रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः। पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम्
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्। सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्
द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम्। तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः। चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम्
तदहं प्रेक्ष्यदैत्यानां पुरमद्भुतदर्शनम्। अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै
पुलोमा नाम दैतेयी कालका च महासुरी। दिव्यंवर्षसहस्रं ते चेरतुः परमं तपः
तपसोन्ते ततस्ताभ्यां स्वयंभूरददाद्वरम्। अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम्
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः। पुरं सुरमणीयं च स्वचरं सुकृतप्रभम्
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि। महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः
सर्वकामगुणोपेतं वीतशोकमनामयम्। ब्र्हमणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो
तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम्। पौलोमाध्युषितं वीर कालकेयैश्च दानवैः
हिरण्यपुरमित्येवं ख्यायते नगरं महत्। रक्षितंकालकेयैश्च पौलोमैश्च महासुरैः
त एतेमुदिता राजन्नवध्याः सर्वदैवतैः। निवसन्त्यत्रराजेन्द्र गतोद्वेगा निरुत्सुकाः