पर्वतैरुपचीयद्भिः पतद्भिश्च तथाऽपरैः। स देशो यत्रवर्तामि गुहेव समपद्यत
पर्वतैश्चाद्यमानोऽहं निगृहीतैश्च वाजिभिः। अगच्छं परमामार्तिं मातलिस्तदलक्षयत्
लक्षयित्वा च मां भीतमिदं वचनमब्रवीत्। आर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम्। देवराजस् दयितं वज्रमस्त्रं नराधिप
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च। अमुञ्चं वज्रसंस्पर्शानायतान्निशिताञ्सरान्
ततो मायाश् ताः सर्वा निवातकवचांश्च तान्। ते वज्रचोदिता बाणा वज्रभूताः रसमाविशन्
ते वज्रवेगविहता दानवाः पर्वतोपमाः। इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले
अन्तर्भूमौ च येऽगृह्णन्दानवा रथवाजिनः। अनुप्रविश्य तान्वाणाः प्राहिण्वन्यमसादनम्
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः। समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः
न हयानां क्षतिः काचिन्न रथस् न मातलेः। मम चादृश्यत तदा तदद्भुतमिवाभवत्
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत। नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः। प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम्। त्रासयन्रथघोषेण निवातकवचस्त्रियः
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान्। रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः। शिलानामिव शैलेषु पतन्तीनामभूत्तदा
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन्। बहुरत्नविचित्राणि शातकुम्भमयानि च
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम्। विशिष्टं देवनगरादपृच्छं मातलिं ततः
इदमेवंविधं कस्माद्देवता न विशन्त्युत। पुरंदरपुराद्धीदं विशिष्टमिति लक्षये
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम्। ततो निवातकवचैरितः प्रच्याविताः सुराः
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम्। इदं वृतं निवासाय देवेभ्यश्चाभयं युधि
ततः शक्रेण भगवान्स्वयंभूरभिचोदितः। विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया
तत उक्तो भगवता दिष्टमत्रेति भारत। भवितान्तस्त्वमप्येषां देहेनान्येन वृत्रहन्
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव। न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया
कालस्य परिणामेन ततस्त्वमिह भारत। एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा
दानवानां विनाशार्थं महास्त्राणां महद्बलम्। ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम्
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान्। पुनर्मातलिना सार्धमगमं देवसद्म तत्
निवर्तमानेन मया महद्दृष्टं ततोऽपरम्। पुरं कामगमं दिव्यं पावकार्कसमप्रभम्
रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः। पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम्
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम्। सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम्
द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम्। तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः