ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः। शैलेन च महास्त्रेण वायोरवेगमधारयम्
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः। प्राकुर्वन्विविधां मायां यौगपद्येन भारत
ततो वर्षं प्रादुरभूत्सुमहद्रोमहर्षणम्। अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम्
सा तु मायामयी वृष्टिः पीडयामास मां युधि। अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः
तमसा संवृतेलोके घोरेण परुषेण च। हरयो विमुखाश्चासन्प्रास्खलच्चापि मातलिः
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि। असकृच्चाह मां भीतः किं करिष्याव इत्यपि
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि। स च मां विगतज्ञानः संत्रस्तमिदमब्रवीत्
सुराणामसुराणां च संग्रामः सुमहानभूत्। अमृतार्थं पुरा पार्त स च दृष्टो मयाऽनघ
शम्बरस्य वधे घोरः संग्रामः सुमहानभूत्। सारथ्यं देवराजस्य तत्रापि कृतवानहम्
तथैव वृत्रस्य वधे संगृहीता हया मया। वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम्
एते मया महाघोरः संग्रामाः पर्युपासिताः। न चापि विगतज्ञानो भूतपूर्वोस्मि पाण्डव
पितामहेन संहारः प्रजानां विहितो ध्रुवम्। न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना। मोहयिष्यन्दानवानामहं मायाबलं महत्
अब्रुवं मातलिं भीतं पश्य मे बुजयोर्बलम्। अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च
अद्यास्त्रमाययैतैषां मायामेतां सुदारुणाम्। विनिहन्मि तमश्चोग्रं मा भैः सूत स्तिरो भव
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप। मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम्
पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः। पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः। भवत्यदर्शनो लोकः पुनरप्सु निमज्जति
सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः। व्यचरत्स्यन्दनाग्र्येण संग्रामे रोमहर्षणे
ततः पर्यपतन्नुग्रा निवातकवचा मयि। तानहं विवरं दृष्ट्वा प्राहण्वं यमसादनम्
वर्तमाने तथा युद्धे निवातकवचान्तके। नापश्यं सहसा सर्वान्दानवान्मायया वृतान्
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया। अदृश्यनास्त्रवीर्येण तानप्यहमयोधयम्
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः। अच्छिन्दन्नुत्तमाङ्गानि यत्रयत्र स्म तेऽभवन्
ततो निवातकवचा वध्यमाना मया युधि। संहृत्य रमायां सहसा प्राविशन्पुरमात्मनः
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने। अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च। शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम्। उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः
ततो निवातकवचा व्योम संछाद्य केवलम्। अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान्
अन्तर्भूमिगताश्चान्ये हयानां चरणानथ। व्यगृह्णन्दानवा घोरा रथचक्रे च भारत
विनिगृह्य हयांश्चान्ये रथं च मम युध्यतः। सर्वतो मामविध्यन्त सरथं धरणीधरैः