ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः। अपीडयन्मां सहिताः शक्तिशूलासिवृष्टिभिः
ततोऽहमस्त्रं प्रायुञ्जं गान्धर्वं नाम भारत। दयितं देवराजस् माधवं नाम भारत
ततः खङ्गांस्त्रिशूलांश्च तोमरांशच् सहस्रशः। अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम्
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः। प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः। निष्पतन्ति महाबाणास्तन्मातलिरपूजयत्
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव। अवाकिरन्मां बलवत्तानहं व्यधमं शरैः
वध्यमानास्ततस्ते तु निवातकवचाः पुनः। शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन्
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः। ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः
तेषां छिन्नानि गात्राणि विसृजन्तिस्म शोणितम्। प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम्
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः। मद्वाणैर्वध्यमानास्ते समुद्विग्राः स्म दानवाः
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः। ततो निवातकवचा मामयुध्यन्त मायया
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः। नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत्
तदहं वज्रसंकाशैः शरैरिनद्रास्त्रचोदितैः। अचूर्णयं वेगवद्भिः शतधैकैकमाहवे
चूर्ण्यमानेऽश्मवर्षे तु यावकः समजायत। तत्राश्मचूर्णा न्यपतन्पावकप्रकरा इव
ततोऽश्मवर्षे विहते जलवर्षं महत्तरम्। धाराभिरक्षमात्राभिः प्रादुरासीनममान्तिके
नभस प्रच्युता धारास्तिग्मवीर्याः सहस्रशः। आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा
धाराणां च निपातेन वायोर्विष्फूर्जितेन च। गर्जितेन च मेघानां न प्राज्ञायत किंचन
धारा दिवि च संबद्धा वसुधायां च सर्वशः। व्यामोहयन्त मां तत्रनिपतन्त्योऽनिशं भुवि
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्। दीप्तं प्राहिणवं घोरमशुप्यत्तेन तज्जलम्
हतेऽश्मवर्षे च मया जलवर्षे च शोषिते। मुमुचुर्दानवा मायामग्निं वायुं च भारत
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः। शैलेन च महास्त्रेण वायोरवेगमधारयम्
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः। प्राकुर्वन्विविधां मायां यौगपद्येन भारत
ततो वर्षं प्रादुरभूत्सुमहद्रोमहर्षणम्। अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम्
सा तु मायामयी वृष्टिः पीडयामास मां युधि। अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः
तमसा संवृतेलोके घोरेण परुषेण च। हरयो विमुखाश्चासन्प्रास्खलच्चापि मातलिः
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि। असकृच्चाह मां भीतः किं करिष्याव इत्यपि
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि। स च मां विगतज्ञानः संत्रस्तमिदमब्रवीत्
सुराणामसुराणां च संग्रामः सुमहानभूत्। अमृतार्थं पुरा पार्त स च दृष्टो मयाऽनघ
शम्बरस्य वधे घोरः संग्रामः सुमहानभूत्। सारथ्यं देवराजस्य तत्रापि कृतवानहम्
तथैव वृत्रस्य वधे संगृहीता हया मया। वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम्