हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि। न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्। न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः
तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम्। आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता। यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्। काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः। प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्
ततो हलहलाशब्दः प्रीतिजः समजायत। आस्तीकस्य वरे दत्ते तथैवोपरराम च
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह। प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः। तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः
लोहिताक्षाय सूताय तथा स्थपतये विभुः। येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु। दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्
प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः। ततश्चकारावभृथं विधिदृष्टेन कर्मणा
आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम्। राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्
पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्। भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ
तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः। कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्
स गत्वा परमप्रीतो मातुलं मातरं च ताम्। अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत्
एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः। आस्तीके वै प्रीतिमन्तो बभूवु- रूचुश्चैनं वरमिष्टं वृमीष्व
भूयोभूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन्। प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स
सायं प्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि। धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किंचिद्भयं स्यात्
तैश्चाप्युक्तो भागिनेयः प्रसन्नै- रेतत्सत्यं काममेवं वरं ते। प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्। दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्
यो जरत्कारुणा जातो जरत्कारौ महावशाः। आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत। तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष। जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर
आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते। शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा
स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः। संप्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे
इत्येवं नागराजोऽथ नागानां मध्यगस्तदा। उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ
मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः। जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्
इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम्। यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्
यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव। पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम
यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया। आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः