रथघोषं तु तं श्रुत्वा स्तनयित्नोग्विम्बरे। मन्वाना देवराजं मामाविग्ना दानवाऽभवन्
सर्वे संभ्रान्तमनसः शग्चापधराः स्थिताः। तथाऽसिशूलपरशुगदामुसलपाणयः
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः। संविधाय पुरे रक्षां न स्म कश्चन दृश्यते
ततः शङ्खमुपादाय देवदत्तं महास्वनम्। परमां मुदमाश्रित्य प्राधमं तं शनैरहम्
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्। वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि
ततो निवातकवचाः सर्व एव समन्ततः। दंशिता विविधैस्त्राणैर्विचित्रायुपाणयः
आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि। पट्टसैः करवालैश्च रथचक्रैश्च भारत
शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः। प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः
ततो विचार्य बहुशो रथमार्गेषु तान्हयान्। प्राचोदयत्समे देशे मातलिर्भरतर्षभ
तेन तेषां प्रणुन्नानासाशुत्वाच्छीघ्रगामिनाम्। नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत्
ततस्ते दानवास्तत्रयोधवातान्यनेकशः। विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन्
तेन शब्देन सहसा समुद्रे पर्वतोपमाः। आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः
ततो निवातकवचाः सर्वेवेगेन भारत। अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः। अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्
ततोऽपरे महावीर्याः शूलपट्टसपाणयः। शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम्। अनिशं सृज्यमानं तैरपतन्मद्रथोपरि
अन्ये मामभ्यधावन्त निवातकवचा सुधि। शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः। गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः। ततो मातलिना तूर्णं हयास्ते संप्रयोदिताः
अथ मार्गान्बहूस्तत्र विचेरुर्वातरंहसः। सुसंयता मातलिना प्रामथ्नन्त दितेःसुतान्
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे। तदा मातलिना यथ्ता व्यचरन्नल्पका इव
तेषां चरणपातेन रथनेमिस्वनेन च। मम बाणनिपातैश्च हतास्ते शतशोऽसुराः
गतासवस्तथैवान्ये दानवाः पाण्डवर्षभ। हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः
ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः। अभ्यघ्नन्विविधैः शस्त्रैस्ततो मे व्यथितं मनः
ततोऽहं मातलेर्वीर्यमद्भुतं समदर्शयम्। अश्वांस्तथा वेगवतो यदयत्नादधारयत्
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे। चिच्छेद सायुधान्राजञ्छतशोऽथ सहस्रशः
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्। प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः
वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च। अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथाऽपरे
स्पर्धमाना इवास्माभिर्निवातकवचा रणे। शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन्
शरवेगैर्निहत्याहमस्त्रैः शरविघातिभिः। ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः