प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम्। प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः
स शङ्खी कवची वाणी प्रगृहीतशरासनः। दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया
ततोऽहं स्तूयमानस्तु तत्रतत्र सुरपिभिः। अपश्यमुदधिं भीममपांपतिमथाव्ययम्
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छिताः। ऊर्मयश्चात्र दृश्यन्ते चलन्तइव पर्वताः
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः। `नभसीव विमानानि विचरन्त्यो विरेजिरे
तिमिङ्गिलाः कच्छपाश् तथा तिमितिभिङ्गिलाः। मकराश्चात्र दृश्यन्ते जले मप्रा इवाद्रयः
शङ्खानां च महबाणि मग्रान्यप्सु ममन्ततः। दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रमंवृताः
तथा सहस्रशस्तत्ररत्नसङ्घाः प्लवन्त्युत। वायुश् घृर्णते भीमस्तदद्भुतमिवाभवत्
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम्। अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात्
तत्रैव मातलिस्तृणं निपात्य पृथिवीतले। दानवान्रथघोपेण तन्पुरं समुपाद्रवत्
रथघोषं तु तं श्रुत्वा स्तनयित्नोग्विम्बरे। मन्वाना देवराजं मामाविग्ना दानवाऽभवन्
सर्वे संभ्रान्तमनसः शग्चापधराः स्थिताः। तथाऽसिशूलपरशुगदामुसलपाणयः
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः। संविधाय पुरे रक्षां न स्म कश्चन दृश्यते
ततः शङ्खमुपादाय देवदत्तं महास्वनम्। परमां मुदमाश्रित्य प्राधमं तं शनैरहम्
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्। वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि
ततो निवातकवचाः सर्व एव समन्ततः। दंशिता विविधैस्त्राणैर्विचित्रायुपाणयः
आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि। पट्टसैः करवालैश्च रथचक्रैश्च भारत
शतघ्नीभिर्भुशुण्डीभिः खङ्गैश्चित्रैः स्वलंकृतैः। प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः
ततो विचार्य बहुशो रथमार्गेषु तान्हयान्। प्राचोदयत्समे देशे मातलिर्भरतर्षभ
तेन तेषां प्रणुन्नानासाशुत्वाच्छीघ्रगामिनाम्। नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत्
ततस्ते दानवास्तत्रयोधवातान्यनेकशः। विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन्
तेन शब्देन सहसा समुद्रे पर्वतोपमाः। आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः
ततो निवातकवचाः सर्वेवेगेन भारत। अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः। अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्
ततोऽपरे महावीर्याः शूलपट्टसपाणयः। शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम्। अनिशं सृज्यमानं तैरपतन्मद्रथोपरि
अन्ये मामभ्यधावन्त निवातकवचा सुधि। शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः। गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः। ततो मातलिना तूर्णं हयास्ते संप्रयोदिताः
अथ मार्गान्बहूस्तत्र विचेरुर्वातरंहसः। सुसंयता मातलिना प्रामथ्नन्त दितेःसुतान्