ततः शक्रस्य भवनमपश्यभमरावतीम्। दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम्
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः। न बाधते तत्ररजस्तत्रास्ति न जरा नृप
न तत्रशोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते। दिवौकसां महाराज न ग्लानिररिमर्दन। न क्रोधलोभौ तत्रास्तामशुबं वा विशांपते
नित्यं तुष्टाश् ते राजन्प्राणिनः सुरवेश्मनि। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः। शीतस्तत्रववौ वायुः सुगन्धो वीजते शुभः
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता। मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः। विमानगामिनश्चात्रदृश्यन्ते बहवोऽमराः
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्। आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम्
ते मां वीर्येण यशसा तेजसा च बलेन च। अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्। देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः
ददावर्धासनं प्रीतः शक्रो मे ददतांवरः। बहुमानाच्च गात्राणि पस्पर्श मम वासवः
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः। अस्त्रार्तमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत्सखा। स च गान्धर्वमखिलं ग्राहयामास मां नृप
तत्राहमवसं राजन्गृहीतास्त्रः सुपूजितः। सुखं शक्रस् भवने सर्वकामसमन्वितः
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम्। पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ
तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत। अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः। एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः। रसंस्पृश्य मूर्ध्नि पाणिब्यामिदं वचनमब्रवीत्
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि। किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा। `अजेयस्त्वं हि सङ्ग्रामे सर्वैरपिसुरासुरैः
अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः। अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः। ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च। पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय। प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः
तव गुर्वर्थकालोऽयं समुत्पन्नः परंतप। प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम्
ततोऽहमब्रवं राजन्देवराजमिदं वचः। विषह्यं यन्मया कर्तुं कृतमेव निबोध तत्
ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा। नाविपह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन
निवातकवचा नाम दानवा मम शत्रवः। समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः। तांस्तत्रजहि कौन्तेय गुर्वर्थस्ते भविष्यति
ततो मातलिसंयुक्तं मयूरसमरोमभिः। हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्। स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्