क्रूरकर्माऽस्त्रवित्तात भविष्यसि परंतप। यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्। मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातनात्
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप। लेकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय। ममात्मजस्य वचनं सूपपन्नमिदं तव
शिक्ष मे भवनं गत्वासर्वाण्यस्त्राणि भारत। वायोरग्नेर्वसुभ्योऽपि वरुणात्समरुद्गणात्
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्। वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च
मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह। एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम्। दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप
लोकपालेषु यातेषु मामुवाचाथ मातलिः। द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्। पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज
देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत। इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम्
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम्। चोदयामास स हयान्मनोमारुतरंहसः
[मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः। अवैक्षत च मे वक्रृंस्तितस्याथ ससारथिः। तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत्
अत्यद्भुतमिदं त्वद्यविचित्रं प्रतिभाति मे। यदास्थितो रथं दिव्यं पदान्न चलितः पदम् ।।]
देवराजोऽपिहि मया नित्यमत्रोपलक्षितः। विचलन्प्रथमोत्पाते हयानां भरतर्षभ
त्वं पुनः स्थित एवात्ररथे भ्रान्ते कुरूद्वह। अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान्। दर्शयामास मे राजन्विमानानि च भारत
[स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः। ऋषयो देवताश्चैव पूजयन्ति नरोत्तम
ततः कामगमाँल्लोकानपश्यं वै सुरर्षिणाम्। गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ।।]
नन्दनादीनि देवानां वनान्युपवनानि च। दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः
ततः शक्रस्य भवनमपश्यभमरावतीम्। दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलंकृताम्
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः। न बाधते तत्ररजस्तत्रास्ति न जरा नृप
न तत्रशोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते। दिवौकसां महाराज न ग्लानिररिमर्दन। न क्रोधलोभौ तत्रास्तामशुबं वा विशांपते
नित्यं तुष्टाश् ते राजन्प्राणिनः सुरवेश्मनि। नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः। शीतस्तत्रववौ वायुः सुगन्धो वीजते शुभः
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता। मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः। विमानगामिनश्चात्रदृश्यन्ते बहवोऽमराः
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान्। आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम्
ते मां वीर्येण यशसा तेजसा च बलेन च। अस्त्रैश्चाप्यन्वजानन्त संग्रामे विजयेन च
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम्। देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः
ददावर्धासनं प्रीतः शक्रो मे ददतांवरः। बहुमानाच्च गात्राणि पस्पर्श मम वासवः