एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः। अगच्छत्स यथाकामं ब्राह्मणः सूर्यसन्निभः
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः। पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च। शैशिरस्य गिरे पादे प्रादुरासन्समीपतः
वादित्राणिच दिव्यानि सुघोषाणि समन्ततः। स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः
गणाश्चाप्सरसां तत्रगन्धर्वाणां तथैव च। पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः
मरुतां च गणास्तत्र देवयानैरुपागमन्। महेन्द्रानुचरा ये च देवसद्मनिवासिनः
ततो मरुत्वानहरिभिर्युक्तैर्वाहैः स्वलंकृतैः। शचीसहायस्तत्रायात्सह सर्वैस्तदाऽमरैः
एतस्मिन्नैव काले तु कुबेरो नरवाहनः। दर्शयामास मां राजँल्लक्ष्म्या परमया युतः
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यस्थितम्। वरुणं देवराजं च यथास्थानमवस्थितम्
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः। सव्यसाचिन्निरीक्षास्माँल्लोकपालानवस्थितान्
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम्। अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्। प्रत्यगृह्णां तदाऽस्त्राणि महान्ति विविधानि च
गृहीतास्त्रस्ततो देवैरनुज्ञातोस्मि भारत। अथ देवा ययुः सर्वेयथागतमरिंदम
मघवानपि मां देवो रथमारोप्य सुप्रभम्। उवाच भगवान्वाक्यं स्मयन्निव महायशाः
पुरैवागमनादस्माद्वेदाहं त्वां धनंजय। अतः परं त्वहं वै त्वां दर्शये भरत्रषभ
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्। तपश्चेदं महत्त्प्तं स्वर्गं गन्तासि पाण्डव
भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम्। `दुश्चरं घोरमस्त्राणां तपोबलकरं तव
स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन। मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति
विदितस्त्वंहि देवानां मुनीनां च महात्मनाम्। `इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम्
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम। आचार्यं वरयेऽहं त्वामस्त्रार्थं त्रिदशेश्वर
क्रूरकर्माऽस्त्रवित्तात भविष्यसि परंतप। यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्। मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातनात्
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप। लेकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय। ममात्मजस्य वचनं सूपपन्नमिदं तव
शिक्ष मे भवनं गत्वासर्वाण्यस्त्राणि भारत। वायोरग्नेर्वसुभ्योऽपि वरुणात्समरुद्गणात्
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्। वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च
मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह। एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम्। दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप
लोकपालेषु यातेषु मामुवाचाथ मातलिः। द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम्। पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज