तत्रापि च महाराज सविशेषमहं ततः। अस्त्रपूगेन महता रणे भूतमवाकिरम्
स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम्। शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम्
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप। तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्
ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत। उपचीयमानश्च तदा महास्त्रेण व्यवर्धत
ततः संतापिता लोका मत्प्रसूतेन तेजसा। क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत्। ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत्
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी। सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्
एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च। मम तस् च भूतस्य बाहुयुद्धमवर्तत
व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ। अपायच्च तद्भूतमहं चापातयं महीम्
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत। सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्
मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः। दिव्यमेव महाराज वरानोऽद्भुतमम्बरम्
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः। स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः
सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः। धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत्
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्। शूलपाणिरथोवाच तुष्टोस्मीति परंतप
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ। प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत्
तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते। मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्। अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम्
ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः। प्रणम्य शिरसा शर्वं ततो वचनमाददे
भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम। अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम्। रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः। उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्
न प्रयोज्यंभवेदेतन्मानुषेषु कथंचन। [जगद्विनिर्दहेदेवमल्पतेजसि पातितम्
पीड्यमानन बलवत्प्रयोज्यंस्याद्धनंजय। अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः
ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम्। मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे
उत्सादनममित्राणां परसेनानिकर्तनम्। दुरासदं दुष्प्रसहं सुरदानवराक्षसैः
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम्। प्रेक्षतश्चैवमे देवस्तत्रैवान्तरधीयत
ततस्तामवसं प्रीतो रजनीं तत्र भारत। प्रसादाद्देवदेवस्यत्र्यम्बकस्य महात्मनः
व्युषितो रजनीं चाहंकृत्वापौर्वाह्णिकीः क्रियाः। अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्। भगवन्तं महादेवं समेतोस्मीति भारत
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः। दृष्टस्त्वया महादेवो यथा नान्येन केनचित्
समेतं लोकपालैस्तु सर्वैर्वैवस्वतादिभिः। द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति