युपत्तं किरातस्तु विकृष्य बलवद्धनुः। अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम्
सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः। मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव। संघर्षवान्महाकायस्ततो मामभ्यधावत
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः। तं चाहं शरवर्षेण महता समवाकिरम्
ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः। प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्
तस्य तच्छतधा रूपमभवच्च सहस्रधा। तानि चास्य शरीराणि शरैरहमताडयम्
पुनस्तानि शरीराणि एकीभूतानि भारत। अदृश्यन्त महाराज तान्यहं व्यधमं पुनः
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः। एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि
यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे। ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ
न चैनमशकं हन्तुं तदद्भुतमिवाभवत्। तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत्
तत्रापि च महाराज सविशेषमहं ततः। अस्त्रपूगेन महता रणे भूतमवाकिरम्
स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम्। शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम्
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप। तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्
ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत। उपचीयमानश्च तदा महास्त्रेण व्यवर्धत
ततः संतापिता लोका मत्प्रसूतेन तेजसा। क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत्। ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत्
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी। सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्
एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च। मम तस् च भूतस्य बाहुयुद्धमवर्तत
व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ। अपायच्च तद्भूतमहं चापातयं महीम्
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत। सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्
मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः। दिव्यमेव महाराज वरानोऽद्भुतमम्बरम्
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः। स्वरूपं दिव्यमास्थाय तस्यौ महेश्वरः
सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः। धनुर्गृह्यतदा पाणौ बहुरूपः पिनाकधृत्
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम्। शूलपाणिरथोवाच तुष्टोस्मीति परंतप
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ। प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत्
तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते। मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम्। अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम्
ततः प्राञ्डलिरेवाहमस्त्रेषु कृतमानसः। प्रणम्य शिरसा शर्वं ततो वचनमाददे
भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम। अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित्
ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम्। रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः। उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम्