स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे। तस्मा अवितथं सर्वमब्रवं कुरुनन्दन
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम। अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत। तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम्
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्। तपोऽतप्यं महाराज मासं मूलफलाशनः
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः। निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा। न च मे हीयते प्राणस्तदद्भुतमिवाभवत्
पञ्चमे त्वथ संप्राप्ते प्रथमे दिवसे गते। वराहसंस्थितं भूतं मत्समीपं समागमत्
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि। संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः
अनु तस्यापरं भूतं महत्कैरातसंस्थितम्। धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी। अताडयं शरेणाथ तद्भूतं रोमहर्षणम्
युपत्तं किरातस्तु विकृष्य बलवद्धनुः। अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम्
सतु मामब्रवीद्राजन्मम पूर्वपरिग्रहः। मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव। संघर्षवान्महाकायस्ततो मामभ्यधावत
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः। तं चाहं शरवर्षेण महता समवाकिरम्
ततः शरैर्दीप्तमुखैर्यन्त्रितैरनु यन्त्रितैः। प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम्
तस्य तच्छतधा रूपमभवच्च सहस्रधा। तानि चास्य शरीराणि शरैरहमताडयम्
पुनस्तानि शरीराणि एकीभूतानि भारत। अदृश्यन्त महाराज तान्यहं व्यधमं पुनः
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः। एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि
यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे। ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ
न चैनमशकं हन्तुं तदद्भुतमिवाभवत्। तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत्
तत्रापि च महाराज सविशेषमहं ततः। अस्त्रपूगेन महता रणे भूतमवाकिरम्
स्थूणाकर्णमथो जालं शरवर्षं शरोल्वणम्। शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम्
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप। तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम्
ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत। उपचीयमानश्च तदा महास्त्रेण व्यवर्धत
ततः संतापिता लोका मत्प्रसूतेन तेजसा। क्षणएन हि दिशः स्वं च सर्वतो हि विदीपितं
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत्। ब्र्हमास्त्रे तु हते राजन्भयं मां महदाविशत्
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी। सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत्
एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च। मम तस् च भूतस्य बाहुयुद्धमवर्तत
व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ। अपायच्च तद्भूतमहं चापातयं महीम्
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत। सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम्