धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्। भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः। धनंजयभिप्रेक्ष्यविनीतं स्थितमन्तिके
जटिलं देवराजस्य तपोयुक्तमकल्मषम्। हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात्। बभूव परमप्रीतो देवराजं च पूजयन्
तं तथाऽदीनमनसं राजानं हर्,संप्लुतम्। उवाच वचनं धीमान्धर्मराजं पुरंदरः
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव। स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्
अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन्। कृतप्रियश्चास्मि धनंजयेन जेतुं न शक्यस्त्रिभिरेष लोकैः
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्। जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः
धनेश्वरगृहस्थानां पाण्डवानां समागमम्। शक्रेण य इदं विद्वानधीयीत समाहितः
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः। स जीवेद्धि निराबाधः सुसुखी शरदां शतम्
यथागतं गते शक्रे भ्रातृभिः सह संगतः। कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत्
अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम्। हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत्
कथमर्जुन कालोऽयं स्वर्गे रव्यतिगतस्तव। कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव। कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत्। यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम। कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते। यथा तुष्टो महादेवो देवराजस्तथाऽनघ
यच्चापि वज्रपाणेस्तु प्रियं कृतमरिंदम। एतदाख्याहि मे सर्वमखिलेन धनंजय
शृणु हन्त महाराज विधिना येन दृष्टवान्। शतक्रतुमहं देवं भगवन्तं च शंकरम्
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन। भवता च समादिष्टस्तपसे प्रस्थितो वनम्
भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः। एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे। तस्मा अवितथं सर्वमब्रवं कुरुनन्दन
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम। अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत। तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिषम्
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम्। तपोऽतप्यं महाराज मासं मूलफलाशनः
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः। निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा। न च मे हीयते प्राणस्तदद्भुतमिवाभवत्
पञ्चमे त्वथ संप्राप्ते प्रथमे दिवसे गते। वराहसंस्थितं भूतं मत्समीपं समागमत्
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि। संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः
अनु तस्यापरं भूतं महत्कैरातसंस्थितम्। धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी। अताडयं शरेणाथ तद्भूतं रोमहर्षणम्