एते वासुकिजा नागाः प्रविष्टा हव्यवाहने। अन्ये च बहवो विप्र तथा वै कुलसंभवाः। प्रदीप्ताग्नौ हुताःसर्वे घोररूपा महाबलाः
तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान्। पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः। शिली शलकरो मूकः सुकुमारः प्रवेपनः
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः। एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्
पारावतः पारियात्रः पाण्डरो हरिणः कृशः। विहङ्गः शरभो मोदः प्रमोदः संहतापनः
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्। कौरव्यकुलजान्नागाञ्शृणु मे त्वं द्विजोत्तम
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः। बाहुकः शृङ्गबेरश्च धूर्तकः प्रातरातकौ
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्। धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम्
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्। शङ्कुकर्णः पिठरकः कुठारमुखसेचकौ
पूर्णाङ्गदः पूर्णमुखः प्रहासः शकुनिर्दरिः। अमाहठः कामठकः सुषेणो मानसोऽव्ययः
अष्टावक्रः कोमलकः श्वसनो मौनवेपगः।' भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोदपारकः। ऋषभो वेगवान्नागः पिण्डारकमहाहनू
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ। वराहको वीरणकः सुचित्रश्चित्रवेगिकः
पराशरस्तरुणको मणिः स्कन्धस्तथाऽऽरुणिः। इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः। एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः। `द्विशीर्षाः पञ्चशीर्षाश्च सप्तशीर्षास्तथाऽपरे। दशशीर्षाः शतशीर्षास्तथान्ये बहुशीर्षकाः
कालानलविषा घोरा हुताः शतसहस्रशः। महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः
योजनायामविस्तारा द्वियोजनसमायताः। कामरूपाः कामबला दीप्तानलविषोल्बणाः
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपाडिताः
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम। तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत। ततश्चिन्तापरो राजा बभूव जनमेजयः
हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि। न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्। न प्रत्यभात्तदाऽग्नौ यत्स पपात न तक्षकः
तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगोत्तमम्। आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता। यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्। काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः। प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्
ततो हलहलाशब्दः प्रीतिजः समजायत। आस्तीकस्य वरे दत्ते तथैवोपरराम च
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह। प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः। तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः
लोहिताक्षाय सूताय तथा स्थपतये विभुः। येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने