स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात्। धौम्यस्य पादावभिवाद्य पूर्व- मजातशत्रोस्तदनन्तरं च
वृकोदरस्यापि च वन्द्य पादौ माद्रीसुताभ्यामभिवादितश्च। समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः
बभूव तेषां परमः प्रहर्ष- स्तेनाप्रमेयेण समेत्य तत्र। स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्
यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेर्निहन्ता। तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्वाः
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम्। सर्वं यथावच्च दिवौकसङ्घं पप्रच्युरेनं कुरुराजपुत्राः
तानप्यसौ मातलिरभ्यनन्द- त्पितेव पुत्राननुशिष्य पार्थान्। ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य
गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी। `साक्षात्सहस्राक्ष इव प्रतीतः श्रीमान्स्वदेहादवमुच्य जिष्णुः
शक्रेण दत्तानिददौ महात्मा महाधनान्युत्तमरूपवन्ति। दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे
ततऋः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्। विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयांबभूव
एवं मयाऽस्त्राण्युपशिक्षितानि शक्राच्च वायोश्च शिवाच्च साक्षात्। तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः
संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवःप्रवेशम्। माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः
[ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम्। भ्रातृभिः सहितः सर्वैरवन्दत धनंजयः ।।]
एतस्मिन्नेव काले तु सर्ववादित्रनिःखनः। बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम्
रथनेमिखनश्चैव घण्टाशब्दश्च भारत। पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः
रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वह। मरुद्भिरन्वितं शक्रमापतन्तं विहायसा
ते समन्तादनुययुर्गन्धर्वाप्सरसस्तथा। विमानैः सूर्यसंकाशैर्देवराजमरिंदमम्
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्। मेघनादिनमारुह्य श्रिया परमया ज्वलन्
पार्थानभ्याजपामाशु देवराजः पुरंदरः। आगत्य च सहस्राक्षो रथादवरुरोह वै
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत्
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः। यथार्हममितात्मानं विधिदृष्टेन कर्मणा
धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्। भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः
आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः। धनंजयभिप्रेक्ष्यविनीतं स्थितमन्तिके
जटिलं देवराजस्य तपोयुक्तमकल्मषम्। हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात्। बभूव परमप्रीतो देवराजं च पूजयन्
तं तथाऽदीनमनसं राजानं हर्,संप्लुतम्। उवाच वचनं धीमान्धर्मराजं पुरंदरः
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव। स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्
अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन्। कृतप्रियश्चास्मि धनंजयेन जेतुं न शक्यस्त्रिभिरेष लोकैः
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्। जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः
धनेश्वरगृहस्थानां पाण्डवानां समागमम्। शक्रेण य इदं विद्वानधीयीत समाहितः
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः। स जीवेद्धि निराबाधः सुसुखी शरदां शतम्
यथागतं गते शक्रे भ्रातृभिः सह संगतः। कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत्