मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य। शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः
साक्षात्कुबेरेण कृताश्च तस्मि- न्नगोत्तमे संवृतकूटगुल्माः। कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन्
क्रीडाप्रदेशांस्च समृद्धरूपा- न्सवेदिकांस्ते न्यवसन्सुवेशान्। मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्नदस्य राज्ञः
अनेकवर्णैश् सुगन्धिभिश्च महाद्रुमैः संततमभ्रजालैः। तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात्। विभक्तरूपः सविता बभूव निशामुखं प्राप्य नरर्षभाणाम्
यमास्थितः स्थावरजङ्गमानां विभावसुर्भाविता हरीशः। तस्योदयं चास्तमनं च वीर- स्तत्रस्थितास्ते ददृशुर्नृसिंहाः
रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः। समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च
स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च। सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनंजयेन। इति ब्रुवन्तः परमाशिपस्ते पार्थास्तपोयोगपरा बभूवुः
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम्। बभूव राविर्दिवसश्च तेषां संवत्सरेणैव समानरूपः
यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः। तदैव तेषां नबभूव हर्षः कुतो रतिस्तद्गतमानसानाम्
भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी। यत्काम्यकात्प्रव्रजितः स जिष्णु- स्तदैव ते शोकहता बभूवुः
तथैव तं चिन्तयतां सिताश्व- मस्त्रार्थिनं वासवमभ्युपेतम्। कालः स कृच्छ्रेण महानतीत- स्तस्मिन्नगे भारत भारतानाम्
[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने। अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात्
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्। ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः
यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं। तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम्
अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्। आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम्
ततः कदाचिद्धरिसंप्रयुक्तं महेन्द्रवाहं सहसोपयातम्। विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव
स दीप्यमानः सहसाऽन्तरिक्षं प्रकाशयन्मातलिसंगृहीतः। बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा
तमास्थितः संददृशे किरीटी स्रग्वी नवान्याभरणानि बिभ्रत्। धनंजयो वज्रधरप्रभावः श्रिया ज्वलन्पर्वतमाजगाम्
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात्। धौम्यस्य पादावभिवाद्य पूर्व- मजातशत्रोस्तदनन्तरं च
वृकोदरस्यापि च वन्द्य पादौ माद्रीसुताभ्यामभिवादितश्च। समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः
बभूव तेषां परमः प्रहर्ष- स्तेनाप्रमेयेण समेत्य तत्र। स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन्
यमास्थितः सप्त जघान पूगान् दितेः सुतानां नमुचेर्निहन्ता। तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्वाः
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम्। सर्वं यथावच्च दिवौकसङ्घं पप्रच्युरेनं कुरुराजपुत्राः
तानप्यसौ मातलिरभ्यनन्द- त्पितेव पुत्राननुशिष्य पार्थान्। ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य
गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी। `साक्षात्सहस्राक्ष इव प्रतीतः श्रीमान्स्वदेहादवमुच्य जिष्णुः
शक्रेण दत्तानिददौ महात्मा महाधनान्युत्तमरूपवन्ति। दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे
ततऋः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम्। विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयांबभूव
एवं मयाऽस्त्राण्युपशिक्षितानि शक्राच्च वायोश्च शिवाच्च साक्षात्। तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः