देशं विरजसं पश्य मेरोः शिखरमुत्तमम्। यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्। अनादिनिधनं देवं प्रभुं नारायणं परम्
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते। देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम्
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः। स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः
प्राच्यां नारायणस्थानं मेरावतिविराजते
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः। भासयन्सर्वभूतानि सुश्रियाऽभिविराजते
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः। प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम्
न तं ज्योतींपि सर्वाणि प्राप्य भासन्ति पाण्डव। स्वयंप्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्। परेण तपसा युक्ता भाविताः कर्मभिः शुभैः। योगसिद्धा महात्मानस्तमोमोहविवर्जिताः
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत। स्वयंभुवं महात्मानं देवदेवं सनातनम्
स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम्। ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर
[एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम्। प्रदक्षिणमुपावृत्यकुरुतः कुरुनन्दन
ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः। परियान्ति महाराज गिरिराजं प्रदक्षिणम् ।।]
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि। कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः। उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु
सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव। प्राङ्युखः सविता देवः सर्वभूतहिते रतः
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु। तथैव भगवान्सोमो नक्षत्रैः सह गच्छति
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः। सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु। भासयन्सर्वभूतानि पुनर्गच्छति सागरम्
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत्। मार्गमेतमसंबाधमादित्यः परिवर्तते
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्। ततः सर्वाणि भूतानि कालं शिशिरमृच्छति
स्थावराणां च भूतानां जङ्गमानां च तेजसा। तेजांसि समुपादत्ते निवृत्तः स विभावसुः
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान्। प्राणिभिः सततं स्वप्नोह्यभीक्ष्णं च निपेव्यते
एवमेतमनिर्देश्यं मार्गमावृत्य भानुमान्। पुनः सृजति वर्षाणि भगवान्भासयन्प्रजाः
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान्। वर्धयनसुमहातेजाः पुनः प्रतिनिवर्तते
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः। प्रकर्षन्सर्वभूतानि सविता परिवर्तते
संतता गतिरेतस्य नैष तिष्ठति पाण्डव। आदायैव तु भूतानां तेजो विसृजते पुनः
विभजन्सर्वभूतानामायुः कर्म च भारत। अहोरात्रं कलाः काष्ठाः सृजत्येष सदा विभुः
तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम्। रतिः प्रमोदश्च बभूव तेषा- माकाङ्क्षतां दर्शनमर्जुनस्य
तान्वीर्ययुक्तान्सुविशुद्धसत्वां- स्तेजस्विनः सत्यधृतिप्रधानान्। संप्रीयमाणा बहवोऽबिजग्मु- र्गन्धर्वसङ्घाश्च महर्षयश्च
तं पादपैः पुष्पफलैरुपेतं नगोत्तमं प्राप्य महारथानाम्। मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम्