पर्वतैश्च वनान्तैश्च काननैश्चैव शोभितम्। एतमाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च। ऋषयः सर्वधर्मज्ञाः सर्वे तात मनीषिणः
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः। ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः
यमस्तु राजा धर्मज्ञः सर्वप्राणभृतां प्रभुः। प्रेतसत्वगतीमेतां दक्षिणामाश्रितो दिशम्
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्। प्रेतराजस्य भवनमृद्ध्या परमया युतम्
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति। अस्तं पर्वतराजानमेतमाहुर्मनीषिणः
एवं पर्वतराजानं समुद्रं च महोदधिम्। अवसन्वरुणो राजा भूतानि परिरक्षति
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्। महामेरुर्महाभाग शिवो ब्रह्मविदांगतिः
यस्मिन्ब्रह्मसदश्चैव भूतात्मा चावतिष्ठते। प्रजापतिः सृजन्सर्वं यत्किंचिज्जङ्गमागमम्
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान्। तेषामपि महामेरुः शिवं स्थानमनामयम्
अत्रैव प्रतितिष्ठन्ति पुनरेषोदयन्ति च। सप्त देवर्षयस्तात वसिष्ठप्रमुखास्तदा
देशं विरजसं पश्य मेरोः शिखरमुत्तमम्। यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्। अनादिनिधनं देवं प्रभुं नारायणं परम्
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते। देवाश्च यत्नात्पश्यन्ति सर्वतेजोमयं शुभम्
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः। स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः
प्राच्यां नारायणस्थानं मेरावतिविराजते
यत्र भूतेश्वरस्तात सर्वप्रकृतिरात्मभूः। भासयन्सर्वभूतानि सुश्रियाऽभिविराजते
नात्र ब्रह्मर्षयस्तात कुत एव महर्षयः। प्राप्नुवन्ति गतिं ह्येतां यतीनां भावितात्मनाम्
न तं ज्योतींपि सर्वाणि प्राप्य भासन्ति पाण्डव। स्वयंप्रभुरचिन्त्यात्मा तत्र ह्यतिविराजते
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्। परेण तपसा युक्ता भाविताः कर्मभिः शुभैः। योगसिद्धा महात्मानस्तमोमोहविवर्जिताः
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत। स्वयंभुवं महात्मानं देवदेवं सनातनम्
स्थानमेतन्महाभाव ध्रुवमक्षयमव्ययम्। ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर
[एनं त्वहरहर्मेरुं सूर्याचन्द्रमसौ ध्रुवम्। प्रदक्षिणमुपावृत्यकुरुतः कुरुनन्दन
ज्योतींषि चाप्यशेषेण सर्वाण्यनघ सर्वतः। परियान्ति महाराज गिरिराजं प्रदक्षिणम् ।।]
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि। कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः। उदीचीं भजते काष्ठां बहुधा पर्वसन्धिषु
सुमेरुमनुवृत्तः स पुनर्गच्छति पाण्डव। प्राङ्युखः सविता देवः सर्वभूतहिते रतः
स सम्यग्विभजन्कालान्बहुधा पर्वसन्धिषु। तथैव भगवान्सोमो नक्षत्रैः सह गच्छति
एवमेतं त्वतिक्रम्य महामेरुमतन्द्रितः। सोमश्च विभजन्कालं बहुधा पर्वसन्धिषु। भासयन्सर्वभूतानि पुनर्गच्छति सागरम्
तथा तमिस्रहा देवो मयूखैर्भासयञ्जगत्। मार्गमेतमसंबाधमादित्यः परिवर्तते
सिसृक्षुः शिशिराण्येव दक्षिणां भजते दिशम्। ततः सर्वाणि भूतानि कालं शिशिरमृच्छति