तथैव चान्नपानानि स्वादूनि च बबूनि च। आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः। धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः। रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर
अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित्। भीमसेनादवरजः पल्गुनः कुशली दिवि
याः काश्चन मता लोके स्वर्ग्याः परमसंपदः। जनमप्रभृति ताः सर्वाः स्थितास्तात धनंजये
द्रमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। एतान्यपि महासत्वे स्थितान्यमिततेजसि
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्। न पार्थस् मृषोक्तानि कथयन्ति नरा नृषु
स देवपितृगन्धर्वैः कुरूणआं कीर्तिवर्धनः। आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्। स शन्तनुर्महातेजाः पितुस्तव पितामहः
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना। सम्यक्वासौ महावीर्यः कुलधुर्य इव स्थितः
पितॄन्देवानृषीन्विप्रान्पूजयित्वा महायशाः। सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः। स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति
एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम्। पाण्डवाश्च ततस्तेन बभूवः संप्रहर्षिताः
ततः शक्तिं गदां खङ्गं धनुश्च भरतर्षभः। प्राध्वंकृत्वा नमश्चक्रे कुबेराय वृकोदरः
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्। मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः
विभयस्ताप शैलाग्रे वसानः सह बन्धुभिः। सुपर्णपितृदेवानां सततं मानकृद्भव
ऋजुं पश्यत मा वक्रं सत्यं वदत माऽनृतम्। दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः। कामान्न परिहास्यन्ति यक्षा वोभरतर्षभाः
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः। साक्षान्मघवतोत्सृष्टः संप्राप्स्यति धनंजयः
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्। अस्तं गिरिमिवादित्यः प्रययौ गुह्यकाधिपः
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः। यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः
पक्षिणामिव कनिर्घोषः कुबेरसदनं प्रति। बभूव परमाश्वानामैरावतपथे यथा
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः। प्रकर्षन्त इवाभ्राणि पिबन्त इवमारुतम्
ततस्तानि शरीराणि गतसत्वानि रक्षसाम्। अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात्
तेषां हि शापकालः स कृतोऽगस्त्येन धीमता। समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा
पाण्डवाश्महात्मानस्तेषु वेश्मसु तां क्षपाम्। सुखमूषुर्गतोद्वेगाः पूजिताः सह राक्षसैः
ततः सूर्योदये धौम्यः पाञ्चालीसहितांस्च तान्। आर्ष्टिणेन सहितः पाण्डवानभ्यवर्तत
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह। ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्
आर्ष्टिषेणं परिष्वज्य पुत्रवद्भरतर्षभ'। धर्मराजं स्पृशन्पाणौ पाणिना स महातपाः। प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति। शैलराजो महाराज मन्दरोऽभिविराजयन्। इन्द्रवैश्रवणोपेतां दिशं पाण्डव रक्षति