राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा। मौर्क्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि। ततः क्रुद्धः स भगवानुवाचेदं तपोधनः
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव। धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्भते। तमेव मानुषं दृष्ट्वाकिल्विषाद्विप्रमोक्ष्यसे
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम्। न शापं प्राप्यते घोरं गच्छ तेऽऽज्ञां करिष्यति
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात्। स भीमेन महाराज भ्रात्रा तव विमोक्षितः
युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः। लोकतन्त्रविधानानामेष पञ्चविधो विधिः
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत। पराक्रमविधानज्ञा नराः कृतयुगेऽभवन्
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित्। क्षत्रियः क्षत्रियश्रेष्ठ शास्ति वै पृथिवीमनु
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु। स लोके लभते वीर यशः प्रेत्य च सद्गतिम्
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्। संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह
[यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते।] पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते। कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्। वृथाचारसमारम्भः प्रेत्य चेह विनश्यति
साहसे वर्तमानानां निकृतीनां दुरात्मनाम्। सर्वेषामर्थलिप्सूनां पापो भवति निश्चयः
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः। निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ
आर्ष्टिषेणस् राजर्षेः प्राप्य भूयस्त्वमाश्रमम्। तमिस्रां प्रथमां तत्र वीतशोकभयो वस
अलकां सह गन्धर्वैर्यक्षैश्च सह किन्नरैः। `गमिष्यामि महाबाहो त्वं चापि बदरीं व्रज
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः। रक्षन्तु त्वां महाबाहो सहितं द्विजसत्तमैः
साहसेषु च संतिष्ठंस्त्वया शैले वृकोदरः। वार्यतां साध्वयं राजंस्त्वया धर्मभृतांवर
इतः परं च वो राजन्द्रक्ष्यन्ति वनगोचराः। उपश्थास्यन्ति वो राजन्रक्षिष्यन्ते च वः सदा
तथैव चान्नपानानि स्वादूनि च बबूनि च। आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः। धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः। रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर
अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित्। भीमसेनादवरजः पल्गुनः कुशली दिवि
याः काश्चन मता लोके स्वर्ग्याः परमसंपदः। जनमप्रभृति ताः सर्वाः स्थितास्तात धनंजये
द्रमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। एतान्यपि महासत्वे स्थितान्यमिततेजसि
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्। न पार्थस् मृषोक्तानि कथयन्ति नरा नृषु
स देवपितृगन्धर्वैः कुरूणआं कीर्तिवर्धनः। आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्। स शन्तनुर्महातेजाः पितुस्तव पितामहः
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना। सम्यक्वासौ महावीर्यः कुलधुर्य इव स्थितः