ते जवेन महावेगाः प्लवमाना विहायसा। गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम्
तत्केसरिमहाजालं धनाधिपतिपालितम्। `रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः
कुबेरं च महात्मानं यक्षरक्षोगणावृतम्। ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम्
कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान्। आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा
सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः।' देवकार्यं करिष्यन्ति हृदयेन तुतोष ह
ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः। तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत। समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम्। नकुलः सहदेवश् धर्मपुत्रश्च धर्मवित्
अपराद्धमिवात्मानं मन्यमाना महारथाः। तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम्
शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा। विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः। उपोपविविशुर्यक्षा राक्षसाश् सहस्रशः
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः। परिवार्योपतिष्ठन्ति यथा देवाः शतक्रतुम्
काञ्जनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम्। बाणखङ्गधनुष्पाणिरुदैक्षत धनाधिपम्
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः। आसीत्तस्यामवस्तायां कुबेरमपि पश्यतः
आददानं शितान्बाणान्योद्धुकाममवस्थितम्। दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम्। निर्भयश्चापिशैलाग्रे वस त्वं सह बन्धुभिः
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव। कालेनैते हताः पूर्वं निमित्तमनुजस्तव
व्रीडा चात्रन कर्तव्या साहसं यदिदं कृतम्। दृष्टश्चापि सुरैः पूर्वंविनाशो यक्षरक्षसाम्
न भीमसेने कोपो मे प्रीतोस्मि भरतर्षभ। कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा
स एवमुक्त्वा राजानं भीमसेनमभाषत। नैतन्मनसि मे तात वर्तते कुरुसत्तम
यदिदं साहसं भीम कृष्णार्थे कृतवानसि। मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम्
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि। शापादद्य विनिर्मुक्तो घोरादस्माद्वृकोदर
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा। शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम्
दृष्टो हि मम संक्लेशः पुरा पाण्डवनन्दन। न तवात्रापराधोस्ति कथंचिदपि पाण्डव
कथं शप्तोसि भगवन्नगस्त्येन महात्मना। श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम्
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस् धीमतः। तदैव त्वं न निर्दग्धः सबलः सपदानुगः
देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः। यक्षाणआं घोररूपाणां विविधायुधधारिणाम्
अध्वन्यहमथापश्यमगस्त्यमृपिसत्तमम्। उग्रं तपस्तप्यभानं यमुनातीरमाश्रितम्। नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम्
तमूर्द्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम्। तेजोराशिं दीप्यमानं हुताशनमिवैधितम्