राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः। त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम्
अर्थधर्मावनादृत्य यः पापे कुरुते मनः। कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम्
साहसंवत भद्रं ते देवानामपि चाप्रियम्'। पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम्। `भीमसेनं महाबाहुमप्रधृष्यपराक्रमम्
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः। विराम महातेजास्तमेवार्थं विचिन्तयन्
ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः। सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्। भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः
न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्तपरिच्छदाः। प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन्
गदापरिघनिस्त्रिंसतोमरप्रासयोधिनः। राक्षसा निहताः सर्वे तव देवपुरःसराः
प्रमृद्यतरसा शैलं मानुषेण धनेश्वर। एकेन निहताः सङ्ख्ये गताः क्रोधवशा गणाः
प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप। शेरते निहता देव गतसत्वाः परासवः
भग्नः शैलो वयं भग्ना मणिमांस्ते सखा हतः। मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम्
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः। कोपसंरक्तनयनः कथमित्यब्रवीद्वचः
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः। चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत्
अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम्। रथं संयोजयामासुर्गर्न्धैवर्हेममालिभिः
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः। तेजोबलगुणोपेता नानारत्नविभूषिताः। शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः
ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम्'। हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः
स तमास्थाय भगवान्राजराजो महारथम्। प्रययौ देवगनधर्वैः स्तूयमानो महाद्युतिः
तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम्। `अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः
रक्ताक्षा हेमसंकाशा महाकाया महाबलाः। सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः
ते जवेन महावेगाः प्लवमाना विहायसा। गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम्
तत्केसरिमहाजालं धनाधिपतिपालितम्। `रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः
कुबेरं च महात्मानं यक्षरक्षोगणावृतम्। ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम्
कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान्। आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा
सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः।' देवकार्यं करिष्यन्ति हृदयेन तुतोष ह
ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः। तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत। समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम्। नकुलः सहदेवश् धर्मपुत्रश्च धर्मवित्
अपराद्धमिवात्मानं मन्यमाना महारथाः। तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम्
शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा। विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः