ते हि विक्षतसर्वाङ्गा भीमसेनभयार्दिताः। भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वथान्। दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः। सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः
दर्शयन्स प्रतीकारं पौरुषं च महाबलः। स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत्
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः। प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम्
एवमाभाष् तान्सर्वानभ्यवर्तत राक्षसः। शक्तिशूलगदापाणिरभ्यधावत्स पाण्डवम्
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्। वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समार्दयत्
मणिमानपि संक्रुद्धः प्रगृह्य महतीं गदाम्। प्राहिणोद्भीमसेनाय परिगृह्य महाबलः
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्। शरैर्बहुभिरानर्छद्भीमसेनः शिलाशितैः
प्रत्यहन्यन्त ते सर्वेगदामासाद्य सायकाः। न वेगं धारयामासुर्गदावेगस्य वेगिताः
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान्। व्यंसयामास तं तस्य प्रहारं भीमविक्रमः
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्। तस्मिन्नेवान्तरे धीमान्प्रचिक्षेप स राक्षसः
सा भुजं भीमनिर्ह्रादा भित्त्वाभीमस् दक्षिणम्। साग्निज्वाला महारौद्रा पपात सहसा भुवि
सोऽतिविद्धो महेष्वासः शक्त्याऽमितपराक्रमः। गदां जग्राह कौन्तेयो गदायुद्धविशारदः
प्राहिणोद्भीमसेनाय वेगेन महता नदन्
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविभागवित्। अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम्
सोऽन्तरिक्षमवप्लुत्य विधूय सहसा गदाम्। प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरहसा। हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह
तं राक्षसं बीमबलं भीमसेनबलाहतम्। ददृशुः सर्वभूतानि सिंहेनेव गवांपतिम्
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः। भीममार्तस्वरं कृत्वा जग्मुः प्राचजीं दिशं प्रति
श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम्। अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा। भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन्
द्रौपदीमार्ष्टिषेणाय संप्रधार्य महारथाः। सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः। ददृशुस्ते महेष्वासा भीमसेनमरिंदमम्
स्फुरतश्च महाकायान्गतसत्वांश्च राक्षसान्। महाबलान्महासत्वान्भीमसेनेव पातितान्
शुशुरतश्च महाकायान्गतसत्वांश्च राक्षसान्। महाबलान्महासत्वान्भीमसेनेन पातितान्
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम्। तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत। लोकपालैर्महाभागैर्दिवं देववरैरिव
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्। भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः
साहसाद्यदिवा मोहाद्बीम पापमिदं कृतम्। नैतत्ते सदृशं वीर मुनेरिव मृषा वधाः