कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः। भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः। इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा। सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः। सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्। संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्। यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः। संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्। ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्
असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम्
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्। नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः। प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः
नमो भगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम्। न तथा फलद सूते नारायणकथा यथा
नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्
आचख्युः कवयः केचित्संप्रत्याचक्षते परे। आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्। विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः। छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम्
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्। इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः
पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये। विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते। बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्
युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत। व्यस्मिंस्तच्छ्रूयते सत्यंज्योतिर्ब्रह्म सनातनम्
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम्। अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्
यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः। ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै। ततः प्रजानां पतयः प्राभवन्नेकविंशतिः
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु। विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा। ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः
महर्षयश्च बहवः सर्वैः समुदिता गुणैः। आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्। यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्