सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः। मनस्वी बलवान्दृष्टो मानी भूरश्च पाण्डवः
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः। सिंहदंष्ट्रो वृषस्कन्धः सालपोत इवोद्गतः
महात्मा चारुसर्वाङ्ग कम्बुग्रीवो महाहनुः। रुक्मपृष्ठं धनुः खङ्गं तूणांश्चापि परामृशन्
सकेसरीव चोत्सिक्तः प्रभिन्न इव वारणः। व्यपेतभयसंमोहः शैलमभ्यपतद्बली
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्। ददृशुः सर्वभूतानि पार्थं खङ्गधनुर्धरम्
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः। व्यपेतभयसंमोहः शैलराजं समाविशत्
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः। कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः
तदेकायनमासाद्य विषमं भीमदर्शनम्। बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः
स किन्नरमहानागमुनिगन्धर्वराक्षसान्। हर्षयन्पर्वतस्याग्रमारुरोह महाबलः
ततो वैश्रवणावासं ददर्श भरतर्षभः। काञ्चनैः स्फाटिकैश्चैव वेश्मभिः समलंकृतम्
[प्राकारेण परिक्षिप्तं सौवर्णेन समन्ततः। सर्वरत्नद्युतिमता सर्वोद्यानवता तथा
शैलादभ्युच्छ्रयवता चयाट्टालकशोभिना। द्वारतोरणनिर्व्यूहध्वजसंवाहशोभिना
विलासिनीभिरत्यर्थं नृत्यन्तीभिः समन्ततः। वायुना धूयमानाभिः पताकाभिरलंकृतम्
धनुष्कोटिमवष्टभ्य वक्रभावेन बाहुना। पश्यमानः सखेदेन द्रविणाधिपतेः पुरम् ।।]
मोदयनसर्वभूतानि गन्धमादनसंभवः। सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः। अचिन्त्या विविधास्तत्र द्रुमाः परमशोभिनः
रत्नजालपरिक्षिप्तं चित्रमाल्यविभूषितम्। राक्षसाधिपतेः स्थानं ददृशे भरतर्षभः
गदाखङ्गधनुष्पाणिः समभित्यक्तजीवितः। भीमसेनो महाबाहुस्तस्थौ गिरिवाचलः
ततः शङ्खमुपाध्माय द्विषतां रोमहर्षणम्। ज्याघोषं तलशब्दं च कृत्वा भूतान्यमोहयत्
ततः प्रहृष्टरोमाणस्तं शब्दमभिदुद्रुवुः। यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः
गदापरिघनिस्त्रिंशशूलशक्तिपरश्वथाः। प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः
ततः प्रववृते युद्धं तेषां तस्य च भारत
तैः प्रयुक्तान्महामायैः शूलशक्तिपरश्वथान्। भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः
अन्तरिक्षगतानां च भूमिष्ठानां च गर्जताम्। शरैर्विव्याध गात्राणइ राक्षसानां महाबलः
शोणितस्य ततः पेतुर्घनानामिव भारत।' गात्रेभ्यः प्रच्युता धारा राक्षसानां समन्ततः'। स लोहितमहावष्टिमभ्यवर्षन्महाबलः
गदापरिघपाणीनां रक्षसां कायसंभवा। कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः
भीमबाहुबलोत्सृष्टैरायुधैर्यक्षरक्षसाम्। विनिकृत्तानि दृश्यन्ते शरीराणि शिरांसि च
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्। ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव
स रश्मिभिरिवादित्यः शरैररिनिपातिभिः। सर्वानार्च्छन्महाबाहुर्बलवान्सत्यविक्रमः
अभितर्जयमानाश्च रुवन्तश् महारवान्। सन्नाहं भीमसेनस्य ददृशुः सर्वराक्षसाः