न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम। `धनदाध्युषिते नित्यं वसतस्तत्र पर्वते
कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च। तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत्
एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन। न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः। शासनं सततं चक्रुस्तथैव भरतर्षभाः
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च। शुद्धबाणहतानां च मृगाणां पिशितान्यपि
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च। एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्। शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत
कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः। राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्। अगच्छन्बहवो मासाः पश्यतां महदद्भुतम्
तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः। प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा
आजग्मुः पाण्डवान्द्रष्टुं शुद्धात्मानो यतव्रताः। ते तैः सह कथां चक्रुर्द्रिव्यां भरतसत्तमाः
ततः कतिपयाहस्सु महाह्रदनिवासिनम्। ऋद्धिमन्तं महानागं सुपर्णः सहसाऽहरत्
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः। ददृशुः सर्वभूतानि पाणअडवाश्च तदद्भुतम्
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः। अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च
तत्रपुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः। ददृशुः पञ्चवर्णानि द्रौपदी च यशस्विनी
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्। विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम्
सुपर्णानिलवेगेन श्वसनेन महाबलात्। पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ
दिव्यावर्णानि दिव्यानि दिव्यगन्धवहानि च। मदयन्तीव गन्धेन मनो मे भरतर्षभ
येषां तु दर्शनात्स्पर्शान्सौरभ्याच्च तथैव च। नश्यतीव मनोदुःखं ममेदं शत्रुतापन
ईदृशैः कुसुमैर्दिव्यैर्दिव्यगन्धवहैः शुभैः। देवतान्यर्चयित्वाऽहमिच्छेयं सङ्गमं त्वया
इदं तु पुरुषव्याघ्र विशेषेणाम्बुजं शुभम्। गन्धसंस्थानसंपन्नं मम मानसवर्धनम्
प्रत्यक्षं सर्वलोकस् नह्यदृश्यत मां प्रति
वासुदेवसहायेन वासुदेवप्रियेण च'। खाण्डवे सत्यसन्धेन भ्रात्रा तव महात्मना
गन्धर्वोरगरक्षांसि वासवश्च पराजितः। हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवं
तवापि सुमहत्तेजो महद्बाहुबलं च ते। अविषह्यमनाधृष्यं शक्रतुल्यपराक्रम
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः। हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्। व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव
एवं प्रणिहितं भीम चिरात्प्रभृतिमे मनः। द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता
इच्छामि च नरव्याघ्र पुष्पं प्रत्यक्षमीदृशम्। आनीयमानं क्षिप्रं वै त्वया भरतसत्तम
ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः। नामृष्यत महाबाहुः प्रहारमिवसद्गजः