अरजांसि च वासांसि वसानाः कौशिकानि च। दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः। महोरगगणाश्चैव सुपर्णाश्चारणादयः
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु। भेरीपणवशङ्खानां मृदङ्गानां च निःस्वनः
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः। न कार्या वः कथंचित्स्यात्तत्राभिगमने मतिः
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः। विहारस्तत्र देवानाममानुषगतिस्तु सा
ईषच्चपलकर्माणं मनुष्यमिह भारत। द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः
अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर। गतिः परमसिद्धानां देवर्षीणां प्रकाशते
चापलाद्धि न गन्तव्यं पार्त यानैस्ततः परम्। अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः। इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते
शिखरे तं समासीनमधिपं यक्षरक्षसाम्। प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम्
देवदानवसिद्धानां तथा वैश्रवणस्य च। गिरेः शिखरमुद्यानमिदं भरतसत्तम
उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु। गीतसामस्वनस्तात श्रूयते गन्धमादने
एतदेवंविधं चित्रमिह तात युधिष्ठिर। प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च। वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात्
न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन। `चपलः सर्वभूतानां द्वेष्यो भवति मानवः
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च। ततः शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि
आर्ष्टिषेणाश्रमे तस्मिन्मम पूर्वपितामहाः। पाण्डोः पुत्रा महात्मान सर्वे दिव्यपराक्रमाः
कियन्तं कालमवसन्पर्वते गन्धमादने। किंच चक्रुर्महावीर्याः सर्वेऽतिबलपौरुषाः
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्। वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम
विस्तरेण च मे शंस भीमसेनपराक्रमम्। यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ
न खल्वासीत्पुनर्युद्धं तस् यक्षैर्द्विजोत्तम। `धनदाध्युषिते नित्यं वसतस्तत्र पर्वते
कच्चित्समागमस्तेषामासीद्वैश्रवणस्य च। तत्र ह्यायाति धनद आर्ष्टिषेणो यथाऽब्रवीत्
एतदिच्छाम्यहं श्रोतुं रविस्तरेण तपोधन। न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम्
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः। शासनं सततं चक्रुस्तथैव भरतर्षभाः
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च। शुद्धबाणहतानां च मृगाणां पिशितान्यपि
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च। एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्। शृण्वतां लोमशोक्तानि वाक्यानि विविधान्युत
कृत्यकाल उपस्तास्य इति चोक्त्वा घटोत्कचः। राक्षसैः सह सर्वैश्च पूर्वमेव गतः प्रभो
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्। अगच्छन्बहवो मासाः पश्यतां महदद्भुतम्
तैस्तत्रविहरद्भिश्च रममाणैश्च पाण्डवैः। प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा