यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम्। तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः
यथा शस्त्राणि नः प्राहुर्यथा शंसति पावकः। इन्द्रस्य भवने राजंस्तक्षको भयपीडितः
यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात्। स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव
पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन्। वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति
तदा जगामाहिदत्ताभयः प्रभुः
भविष्यतीत्येव विचिन्तयानः
तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत्। ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः। तमिन्द्रेणैव सहितं पातयध्यं विभावसौ
जनमेजयेन राज्ञा तु नोदितस्तक्षकं प्रति। होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा
हूयमाने तथा चैव तक्षकः सपुरन्दरः। आकाशे ददृशे तत्र क्षणेन व्यथितस्तदा
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत्। हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ
इन्द्रे गते तु राजेन्द्र तक्षको भयमोहितः। मन्त्रशक्त्या पावकार्चिस्समीपमवशो गतः। `तं दृष्ट्वा ऋत्विजस्तत्र वचनं चेदमब्रुवन्
अयमायाति तूर्णं स तक्षकस्ते वशं नृप। श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्
नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रवित्रस्तकायः। घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निश्वासान्निश्वसन्पन्नगेन्द्रः
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो। अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि
बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि यथानुरूपम्। वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम्
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि। इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत्
वरं ददासि चेन्मह्यं वृणोमि जनमेजय। सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः। नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत्
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो। तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्। सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा। पुनःपुनरुवाचेदमास्तीकं वदतां वरः
अन्यं वरय भद्रं ते वरं द्विज्वरोत्तम। अयाचत न चाप्यन्यं वरं स भृगुनन्दन
ततो वेदविदस्तात सदस्याः सर्व एव तम्। राजानमूचुः सहिता लभतां ब्राह्मणो वरम्
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने। तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च। न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम
यथास्मृति तु नामानि पन्नगानां निबोध मे। उच्यमानानि मुख्यानां हुतानां जातवेदसि
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे। नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हूतान्। कोटिशो मानसः पूर्णः शलः पालो हलीमकः
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः। हिरण्यबाहुः शरणः कक्षकः कालदन्तकः