बहुतालसमुत्सेघाः शैलशृङ्गपरिच्युताः। नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च
भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः। शोभयन्ति महाशैलं नानारजतधातवः
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः। धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च
मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः। शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः। एते बहुविधाः शैलं शोभयन्ति महाप्रभाः
गन्धर्वाः सह कान्ताभिर्यथेष्टं भीमविक्रमाः। दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह
गीतानां समतालानां तथासाम्नां च निःखनः। श्रूयते बहुधा भीम सर्वभूतमनोहरः
महागङ्गामुदीक्षख पुण्यां देवनदीं शुभाम्। कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम्
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः। गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः। उपेतं पश्य कौन्तेय शैलराजमरिंदम
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम्। नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः। आर्ष्टिपेणस् राजर्षेराश्रमं ददृशुस्तदा
ततस्ते तिग्मतपसं कृशं धमनिसंततम्। पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन्
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्। अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्
ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ। शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः। यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम्
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा। पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत्
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः। सह भ्रातृभिरसीनं पर्यपृच्छदनामयम्
नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे। मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः। कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्। यथान्यायं कुरुश्रेष्ठ जानासि न विकत्थसे
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः। वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते। दानधर्मतपःशौचैरार्जवेन तितिक्षया
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे। कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव
स्वेस्वे किल कुले जाते पुत्रे नप्तरि वा पुनः। पितरः पितृलोकस्थाः शोचन्ति च रमन्ति च
किं तस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति। किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनं
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः। यस्यैतेपूजिताः पार्थ तस्य लोकावुभौ जितौ
भगवन्नार्य माऽऽहैतद्यथावद्धर्मनिश्चयम्। यथाशक्ति यथान्यायं क्रियते विधिवन्मया
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा। जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु
कामिनः सह कान्ताभिः परस्परमनुव्रताः। दृश्यन्ते शैलशृङ्गस्था यथा किंपुरुषा नृप