शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च। मेघतूर्यरवोद्दाममदनाकुलितान्भृशम्
कृत्वैव केकामधुरं संगीतं मधुरस्वरम्। चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान्
मयूरान्ददृशुर्हृष्टान्नृत्यतो वनलालसान्। कांश्चित्प्रियाभिः सहितान्रममाणान्कलापिनः
वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा। कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव
कलापरुचिराटोपनिचितान्मुकुटानिव। विवरेषु तरूणां च रुचिरान्ददृशुश्च ते
सिन्धुवारांस्तथोदारान्मन्मथस्येव तोमरान्। सुवर्णवर्णकुसुमान्गिरीणां सिखरेषु च। कर्णिकारान्विकसितान्कर्णपूरानिवोत्तमान्
तथाऽपश्यन्कुरबकान्वनराजिषु पुष्पितान्। कामवश्यौत्सुक्यकरान्कामस्येव शरोत्करान्
तथैव वनराजीनामुदारान्रचितानिव। विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव
तथानङ्गशराकारान्सहकारान्मनोरमान्। अपश्यन्भ्रामरान्राजन्मञ्जरीभिर्विराजितान्
हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि। लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि। अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु
तथा सालांस्तमालांश्च पाटलाबकुलानपि। माला इव समासक्ताः शैलानां शिखरेषु च
विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः। कलहंसैरुपेतानि सारसाभिरुतानि च
सरांसि बहुशः पार्था पश्यन्तः शैलसानुषु। पद्मोत्पलविमिश्राणि सुखशीतजलानि च
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः। गन्वन्त्यथ माल्यानि रसवन्ति फलानि च
सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान्। विविशुः पाण्डवाः सर्वेविस्मयोत्फुल्ललोचनाः
कमलोत्पलकह्लारपुण्डरीकसुगन्धिना। सेव्यमाना वने तस्मन्सुखस्पर्शेन वायुना
ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः। अहो श्रीमदिदं भीम गन्धमादनकाननम्
वने ह्मस्मिन्मनोरम्ये दिव्या काननजा द्रुमाः। लताश्च विविधाकाराः पत्रपुष्पफलोपगाः। भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः
नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः। स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु
भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः। विलोड्यमाना पश्येमाः करिभिः सकरेणुभिः
पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम्। स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम्
नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे। उपगीयमाना भ्रमरै राजन्ते वनराजयः
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः। अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर
लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः। संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम्। नदतां शृणु निर्घोषं भीम पर्वतसानुषु
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः। पत्रिणः पुष्पितानेतान्संपतन्ति महाद्रुमान्
रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः। परस्परमुदीन्ते बहवो जीवजीवकाः
हरितारुणवर्णानां शाड्वलानां समीपतः। सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि
वदन्ति मधुरा वाचः सर्वभूतमनोरमाः। भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः। एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः