नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः। पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु। पर्वतं विविशुस्ते तं चतुर्थेऽहनि पाण्डवाः
महाभ्रघनसंकाशं सलिलोपहितं शुभम्। मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम्
रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम्। शिलाविभङ्गविकटं लतापादपसङ्कुलम्
ते समासाद्यपन्थानं यतोक्तं वृषपर्वणा। अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान्
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः। सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः
धौम्यः कृष्णा च पार्ताश्च लोमशश्च महानृषिः। आगच्छन्सहितास्तत्रन कश्चिदपि हीयते
ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम्। शाखामृगगणैश्चैव सेवितं सुमनोरमम्
पुण्यं पद्मसरोपेतं सपल्वलमहावनम्। उपतस्थुर्महाभागा माल्यवतं महागिरिम्
ततः किंपुरुषावासं सिद्धचारणसेवितम्। ददृशुर्हृषरोमाणाः पर्वतं गन्धमादनम्
विद्याधरानुचरितं किन्नरीभिस्तथैव च। गजसङ्घसमावासं सिंहव्याघ्रगणायुतम्
शरभोन्नादसंघुष्टं नानमृगनिषेवितम्
ते गन्धमादनवनं तन्नन्दनवनोपमम्। मुदिताः पाण्डुतनया मनोनयननन्दनम्
विविशुः क्रमशो वीरा अरण्यं शुभकाननम्। द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः
शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान्। श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान्
सर्वर्तुफलभाराञ्यान्सर्वर्तुकुसुमोज्ज्वलाम्। पश्यन्तः पादपांस्चापि फलभारावनामितान्
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान्। मुञ्जातकांस्तथाञ्जीरान्दाडिमान्बीजपूरकान्
पनसाँल्लिकुचान्मोचाः खर्जूरानम्लवेतसान्। परावतांस्तथा क्षौद्रानीपांश्चापि मनोरमान्
बेल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा। पुक्षानुदुम्बरवटानश्वत्थान्क्षीरिकास्तथा
मल्लातकानामलकीर्हरीतकबिभीतकान्। इङ्गुदान्करमर्दांश्च तिन्दुकांश् महाफलान्
एतानन्यांश्च विविधान्गन्धमादनसानुषु। फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरूपन्
तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा। पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान्। पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा। पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा। शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा
चकोरैः शतपत्रैश् भृङ्गराजैस्तथा शुकैः। कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः
प्रियकैश्चातकैश्चैव तथाऽन्यैर्विविधैः खगैः। श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान्
सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः। कुमुदैः पुण्डरीकैश्च तृथा कोकनदोत्पलैः। कहारैः कमलैश्चैव आचितानि समन्ततः
कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः। कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः। हृष्टैस्तथा तामरसरसासवमदालसैः
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः। मञ्जुस्वरैर्मधुकरैर्विरुतान्कमलाकरान्
अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु। तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः