तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत्। स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्। अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः। द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम्
समाश्चतस्रोऽभिगताः शिवेन चरतां वने। कृतोद्देशः स बीभत्सुऋ पञ्चमीमभितः समाम्
प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम्। [पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलाषट्पदैः
मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्। व्याघ्रैर्वरहैर्महिषैर्गवयैर्हरिणैस्तथा
श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्। फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः
प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि। महापुणअयं पवित्रं च सुरासुरनिषेवितम्।] तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः
कृतश्च समयस्तेन पार्थेनामिततेजसा। पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि
अत्रगाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्। देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः। कारणं चैव तत्तेवामाचचक्षे तपस्विनाम्
तमुग्रतपसः प्रीताः कुत्वापार्थं प्रदक्षिणम्। ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ। क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्। प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः
द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तदा'। राक्षसैरनुयातो वै लोमशेनाभिरक्षितः
क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुदह्यते क्वचित्। तत्रतत्र महातेजा भ्रातृभिः सह सुव्रतः
ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन्। सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम्
अवेमाण कैलासं मैनाकं चैव पर्वतम्। गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम्
उपर्युपरि शैलस्य बहीश्च सरितः शिवाः। पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकम्। पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते
सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः। समावृतं पुण्यतममाश्रमं वृषपर्वणः
तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः। पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्। पूजिताश्चावसंस्तत्रसप्तरात्रमरिंदमाः
अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम्। आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन्
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि। न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्। पारिबर्हं चतं शेषं परिदाय महात्मने
ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च। न्यदधुःपाण्डवा राजन्नाश्रमे वृषपर्वणः
अतीतानागते विद्वान्कुशलः सर्वधर्मवित्। अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान्
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्। `कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन्। उपन्यस् महातेजा विप्रेभ्यः पाण्डवांस्तदा
अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च। वृषपर्वा निववृतेपन्थानमुपदिश्य च