भीमसेनोऽप्यवष्टब्धो नियुद्धायाभवत्स्थितः। राक्षसोऽपि च विस्रब्धो बाहुयुद्धमकाङ्क्षत
वर्तमाने तयो राजन्बाहुयुद्धे सुदारुणे। माद्रीपुत्रावतिक्रुद्धावुभावप्यभ्यधावताम्
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः। शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत्
आत्मना भ्रातृभिश्चैव धर्मेण सुकृतेन च। इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम्
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम्। बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ
तयोरासीत्संप्रहारः क्रुद्धयोर्भीमरक्षसोः। अमृष्यमाणयोः सङ्ख्ये शक्रशम्बरयोरिव
तौ वीरौ समभिक्रुद्धावन्योन्यं पर्यधावताम्। आरुज्यारुज्यतौ वृक्षानन्योन्यमभिजघ्नतुः। जीमूताविव धर्मान्ते विनदन्तौ महाबलौ
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ। अन्योन्येनाभिसंरब्धौ परस्परवधैषिणौ
तद्वृक्षयुद्धमभवनमहीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम्। ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः। पुगीकृताश्च शतशः परस्परवधेप्सया
ततः शिलाः समादाय मुहूर्तमिव भारत। महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ
शिलाभिरुग्ररूपाभिर्बृहतीभिः परस्परम्। वज्रैरिव महावेगैराजघ्नतुरमर्षणौ
अभिद्रुत्य च भूयस्तावन्योन्यबलदर्पितौ। भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव
मुष्टिभिश् महाघोरैरन्योन्यमभिपेततुः। ततः कटकटाशब्दो बभूव शुमहात्मनोः
ततः संहृत्यमुष्टिं तु पञ्चशीर्षमिवोरगम्। वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम्
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम्। सुपरिभ्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत
तत एनं महाबाहुर्बाहुभ्याममरोपमः। समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले
ततः संपीड्य बलवद्भुजाभ्यां क्रोधमूर्च्छितः।' तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः। अरत्निना चाभिहत्य शिरः कायादपाहरत्
संदष्टौष्ठं विवृत्ताक्षं फलं वृक्षादिव च्युतम्। जटासुरस्य तु शिरो भीमसेनबलाद्धृतम्। पपात रुधिरादिग्धं संदष्टदशनच्छदम्
तं निहत्यमहेष्वासो युधिष्ठिरमुपागमत्। स्तूयमानो द्विजाग्र्यैस्तु मरुद्भिरिव वासवः
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्। अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः। द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम्
समाश्चतस्रोऽभिगताः शिवेन चरतां वने। कृतोद्देशः स बीभत्सुऋ पञ्चमीमभितः समाम्
प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम्। [पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलाषट्पदैः
मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम्। व्याघ्रैर्वरहैर्महिषैर्गवयैर्हरिणैस्तथा
श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम्। फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः
प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि। महापुणअयं पवित्रं च सुरासुरनिषेवितम्।] तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः
कृतश्च समयस्तेन पार्थेनामिततेजसा। पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि
अत्रगाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्। देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्