एवमेव वृथाचारो वृथा वृद्धो वृथामतिः। वृथामरणमर्हस्त्वं वृथाऽद्य नमविष्यसि
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः। प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि। अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलं
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्। विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत। स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः। मा भैष्टं राक्षसान्मूढाद्गतिरस्य मया हृता
नातिदूरे महबाहुर्भविता पवनात्मजः। अस्मिन्मुहूर्ते संप्राप्ते नभविष्यति राक्षसः
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्। उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम्
राजन्किं नाम सत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्। यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रुं जयेत वा
एष वास्मान्वयं वैनं युध्यमानाः परंतप। सूदयेम महाबाहो देशः कालो ह्ययं नृप
क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम। जयन्तो हन्यमाना वा प्राप्तुमर्हाम सद्गतिम्
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि। नाहं ब्रूयां पुनर्जातु क्षत्रियोस्मीति भारत
भोभो राक्षस तिष्ठस्व सहदेवोस्मि पाण्डवः। हत्वा रवा मां नयस्वैनां हतो वा स्वप्स्यसीह वै
तदा ब्रुवति माद्रेये भीमसेनो यदृच्छया। प्रादृश्यत महाबाहुः सवज्र इव वासवः
सोऽपश्यद्धातरौ तत्र द्रौपदीं च यशस्विनीम्। क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्। भ्रमन्तं तत्रतत्रैव दैवेन परिमोहितम्
हृतान्संदृश्य तान्भ्रातृन्द्रौपदीं च महाबलः। क्रोधमाहारयद्भीमो राक्षसंचेदमब्रवीत्
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे। आस्था तु त्वयि मे नास्ति यतोसि न हतस्तदा
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम्। प्रियेषु रममाणं त्वां न चैवाप्रियकारिणम्। ब्रह्मरूपेण विहितं नैव हन्यामनागसम्
राक्षसं जानमानोऽपि यो हन्यान्नरकं व्रजेत्। अपक्वस्य च कालेन वधस्तव न विद्यते
नूनमद्यासि संपक्वो यथा ते मतिरीदृशी। दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा। `सोपि कालं समासाद्य तथाऽद्य नभविष्यसि
बडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः। मत्स्योऽम्भसीव स्यूतास्यः कथमद्य गमिष्यसि
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते। न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः। भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः। न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम्
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे। तेषामद्यकरिष्यामि तवास्रेणोदकक्रियाम्
एवमुक्त्वातदा भीमं राक्षसो योद्धुमाययौ। करालवदनः क्रोधात्कालसर्प इव श्वसन्
एवमुक्तस्ततो भीमः सृक्विणी परिलेलिहन्। स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः
ब्रुवन्वै तिष्ठतिष्ठेति क्रोधसंरक्तलोचनः'। बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम्
मुहुर्मुहुर्व्याददानः सृक्विणी परिसंलिहन्।] अभिदुद्राव संरब्धो बलो वज्रधरं यथा