एवं ब्रुवति राजेन्द्रे वागुवाचाशरीरिणी। न शक्यो दुर्गमो गन्तुं पर्वतो गन्धमादनः
अननैव पथा राजन्प्रतिगच्छ यथागतम्। नरनारायणस्थानं बदरीत्यभिविश्रुतम्
तस्माद्यास्यसि कौन्तेय सिद्धचारणसेवितम्। बहुपुष्पफलं रम्यमाश्रमं वृषपर्वणः
अतिक्रम्य च तं पार्थ त्वार्ष्टिषेणाश्रमे वसेः। ततो द्रक्ष्यसि कौन्तेय निवेशं धनदस्य च
एतस्मिन्नन्तरे वायुर्दिव्यगन्धवहः शुभः। भनःप्रह्लादनः शीतः पुष्पवर्षं ववर्ष वै
तच्छ्रुत्वा दिव्यमाकाशाद्विस्मयः समपद्यत। ऋषीणां ब्राह्मणानां च पार्थिवानां विशेषतः
श्रुत्वा तन्महदाश्चर्यं द्विजो धौम्यस्त्वभाषत। न शक्यमुत्तरं गन्तुं प्रतिगच्छाम पाण्डव
ततो युधिष्ठिरो राजा विस्मयोत्फुल्ललोचनः। [प्रत्यागम्य पुनस्तं तु नरनारायणाश्रमम् ।।]
भीमसेनादिभिः सर्वैर्भ्रातृभिः परिवारितः। पाञ्चाल्या ब्राह्मणैश्चैव न्यवसत्सुसुखं तदा
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्। [पर्वतेन्द्रे द्विजैः सार्धं पार्तागमनकाङ्क्षया ।।]
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च। रहितान्मीमसेनेन कदाचित्तान्यदृच्छया। जहार धर्मराजं वै यमौ कृष्णां च राक्षसः
ब्रह्मन्कथं धर्मराजं यमौ कृष्णां च राक्षसः। जहार चित्रं भीमश्च गतो राक्षसकण्टकः। वक्तुमर्हसि विप्राग्र्य व्यक्तमेतन्ममाऽनघ
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः। इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा । परीप्समानः पार्थानां कलापांश्च धनूंषि च
अन्तरं संपरिप्रेप्सुर्द्रौपद्या हरणं प्रति। दुष्टात्मा पापबुद्धिः स नाम्ना ख्यातो जटासुरः
[पोषणं तस् राजेनद्र चक्रे पाण्डवनन्दनः। बुबुधे न च तं पापं भस्मच्छन्नमिवानलम्
स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे। [घटोत्कचं सानुचरं दृष्ट्वा विप्रद्रुतं दिशः
लोमशप्रभृतींस्तांस्तु महर्षीश्च समाहितान्। स्नातुं विनिर्गतान्दृष्ट्वा पुष्पार्थं च तपोधनान्]
रूपमन्यत्समास्थाय विकृतं भैरवं महत्। गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च। प्रातिष्ठत सुदुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान्
[विक्रम्य कौशिकं खङ्गं मोक्षयित्वा ग्रहं रिपोः।] आक्रन्दद्भीमसेन वै येन यातो महाबलः
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः। धर्मस्ते हीयते मूढ न चैनं समवेक्षसे
येऽन्ये क्वचिन्मनुष्येषु तिर्यग्योनिगताश्च ये। धर्मं ते समवेक्षन्ते रक्षांसि च विशेषतः
धर्मस्यराक्षसा मूलं धर्मं ते विदुरुत्तमम्। एतत्परीक्ष्यसर्वं त्वं समीपे स्थातुमर्हसि
देवाश्च ऋषयः सिद्धाः पितरश्चापि राक्षस। गन्धर्वोरगरक्षांसि वयांसि पशवस्तथा
तिर्यग्योनिगताश्चैव अपि कीटपिपीलिकाः। मनुष्यानुपजीवन्ति ततस्त्वमपि जीवसि
समृद्ध्या यस्य लोकस्य लोको युष्माकमृध्यति। इमं च लोकं शोचन्तमनुशोचन्ति देवताः। पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस। राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्
न च राजाऽवमन्तव्यो रक्षसा जात्वनागसि। अनुरप्यपचारश्च नास्त्यस्माकं नराशन
विघसाशान्यथाशक्त्या कुर्महे देवतादिषु। गुरूंश्च ब्राह्मणांश्चैव प्रमाणप्रवणाः सदा
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्। येषां चान्नानि भुञ्जीत यत्रच स्यात्प्रतिश्रयः
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः। भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि