उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्। गच्छाम सहितास्तूर्णं येन यातो वृकोदरः
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्। त्वमप्यमरसंकाश वह कृष्णां घटोत्कच
व्यक्तं दूरमितो भीमः प्रविष्ट इतिमे मतिः। चिरं चतस्य कालोऽयं स च वायुसमो जवे
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने। उत्पतेदपिचाकाशं निपतेच्चयथेच्छकम्
तमन्वियाम भवतां प्रभावाद्रजनीचराः। पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम्
तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा। उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः। लोमशेनैव सहिताः प्रययुः प्रीतमानसाः
ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने। पद्मसौगन्धिकवतींनलिनीं सुमनोरमाम्
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्। ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान्
भिन्नकायाक्षिबाहूरुन्संचूर्णितशिरोधरान्। तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्
सक्रोधं स्तव्धनयनं संदष्टदशनच्छदम्। उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम्
प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्। तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्। साहसं वत भद्रं ते देवानामपि चाप्रियम्। पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च। तस्यामेव नलिन्यां तु विजह्ररमरोपमाः
एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः। प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः
ते दृष्ट्वाधर्मराजानं महर्षिं चापि लोमशम्। नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान्
विनयेन नताः सर्वेप्रणिपत्य च भारत। सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः
विदिताश्चकुबेरस्य तत्रते कुरुपुङ्गवाः। ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः। प्रतीक्षमाणआ बीभत्सुं गन्धमादनसानुषु
तस्मिन्निवसमानोऽथ धर्मराजो युधिष्ठिरः। आमन्त्र्य सहितान्भ्रातृनित्युवाच सहद्विजान्
दृष्टानि तीर्थान्यस्माभिः पुण्यानि च शिवानि च। मनसो ह्लादनीयानि वनानि च पृथक्पृथक्
देवैः पूर्वं विचीर्णानि मुनिभिश्च महात्मभिः। यथाक्रममशेषेण द्विजैः संपूजितानि च
ऋषीणां पूर्वचरितं तपोधर्मविचेष्टितम्। राजर्षीणां च चरितं कथाश्च विविधाः शुभाः
शृण्वानास्तत्रतत्र स्म आश्रमेषु शिवेषु च। अभिषेकं द्विजैः सार्धं कृतवन्तो विशेषतः
अर्चिताः सततं देवाः पुष्पैरद्भिः सदा च वः। यथालब्धैर्मूलफलैः पितरश्चापि तर्पिताः
पर्वतेषु च रम्येषु सर्वेषु च सरस्सु च। उदधौ च महापुण्ये सूपस्पृष्टं महात्मभिः
इला सरस्वती सिन्धुर्यमुना नर्मदा तथा। नानातीर्थेषु रम्येषु सूपस्पृष्टं सह द्विजैः
गङ्गाद्वारमतिक्रम्य बहवः पर्वताः शुभाः। हिमवान्पर्वतश्चैव नानाद्विजगणायुतः
विशाला बदरी दृष्टा नरनारायणाश्रमः। दिव्यपुष्करिणी दृष्टा सिद्धदेवर्षिपूजिता
यथाक्रमविशेषेण सर्वाण्यायतनानि च। दर्शितानि द्विजेनद्रेण लोमशेन महात्मना
इमं वैश्रवणावासं दुर्गमं गन्धमादनम्। कथं भीम गमिष्यामो मतिरत्र विधीयताम्